वाचस्पत्यम्
व्यञ्जन || न० विशेषेणाज्यते वि + अन्ज—ल्युट १ सूपशाकादौ ओदनभोजनोपकरणे राजनि० । “व्यञ्जनं शाकमत्- स्याद्यं हृद्यं वृष्यञ्च पुष्टिदम् । द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः । तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत्” राजव० । वि + अन्ज—णिच्—ल्युट् । २ चिह्ने ३ श्म- श्रुणि ४ अवयवे ५ दिने मेदि० । ६ उपस्थे ७ अर्द्धमात्राका- लेनीच्चार्य्ये हल्वर्णे च धरणिः “व्यञ्जनं चार्द्धमात्रकम्” शिक्षा० । ८ अलङ्कारप्रसिद्धे शब्दस्य वृत्तिभेदे च युच् । ९ उक्तार्थे स्त्री “विरतास्रभिधाद्यासु ययार्थो बोध्यतेऽ- परः । सा वृत्तिर्व्वञ्जना नाम शब्दस्यार्थादिकस्य च । अभिधासक्षणामूलाशब्दस्य व्यञ्जना द्विधा” सा० द० । तत्र अभिधामूला तच्छब्दे २९० पृ० दृश्या । “लक्षणामूलामाह “लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् । यया प्रत्याय्यते सा स्याद् व्यञ्जना लक्षणा- श्रया” । (गङ्कायां घोषः) इत्यादौ जलमयाद्यर्थ- बोधनादभिधायां विरतायां तदाद्यर्थबोधनाच्च लक्षणायां विरतायां यथा शीतत्वपावनत्वाष्द्यविशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना । एवं शाब्दीं व्यञ्जनामुक्त्वाऽऽर्थीं व्यञ्जनामाह “वक्तृबोद्धवाक्यानाकन्यसन्निधिवाच्ययोः । प्रस्तावदेशकालानां कालोञ्चेष्टादिकस्य च । वैशिष्ट्या- दन्यमर्थं या बोधयेत् साऽर्थलम्भवा” । व्यञ्जनेति सम्ब- ध्यते । तत्र वक्तृवाक्यवोस्तावद्देशकालवैशिष्ट्ये यथा मम “कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः अमीराः । केलीवनीयमपि वञ्जुलकुञ्ज- मञ्जुर्दूरे पतिः कथय किं करणीयमद्य” । अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्यया प्रेष्यताम्” इति सखीं प्रति कयाचित् द्योत्यते । बोद्ध्वव्यवैशिष्ट्ये यथा “निः- शेषषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूर- मनञ्जने पुलकिता तन्धी तवेयं तनुः । मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे वाषीं आतुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्” । अत्र तदन्तिकमेव गतासीति विपरीतलक्षणया लक्ष्यम् । तस्य च रन्तु- मिति व्यङ्गां प्रतिपाद्यदूतावैशिष्ट्याद्बोध्यते । अ- {??} सिणीपत्तम्मि रेहै बलाआ । {??} णपरिठ्ठि{??} सं{??} । {??} वेम विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः सङ्केतः स्थानमेतदिति कयापि सन्निहितप्रच्छन्नकासुकं प्रत्यु- च्यते। अत्रैव स्थाननिर्जनत्व व्यङ्गार्थ वैशिष्ट्यं प्रयो जनम् । “भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते” । इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्यो ज्ञातव्याः । एतद्वौशिष्ट्य यथा “गुरुपरन्त्रतया वत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि! सुर- भिसलयेऽसौ” । अत्र नैष्यति अपि तु एव्यत्येवेति काक्वा व्यज्यते । चेष्टावैशिष्ट्ये यथा “सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीला- पद्मं निमीलितम्” । अत्र सन्ध्या सङ्केतकाल इति प- द्मनिमीलनादिचेष्टया कयाचित् द्योत्यते । एवं वक्त्रा- दीनां व्यस्तसमस्तानां वैशिष्ट्ये बोध्यम् । “त्रैविध्यादि- यमर्थानां प्रत्येकं त्रिविधा मता” । अर्थानां वाच्यलक्ष्य- व्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रि- विधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा “काली मघुः” इत्यादि । लक्ष्यार्थस्य यथा “निःशेषच्युतचन्दनम्” इत्यादि । व्यङ्ग्यार्थस्य यथा “उअ णिच्चमेत्यादि” । प्रकृतिप्रत्ययव्यञ्जनत्वन्तु प्रपञ्चयिष्यते “शब्दोबोध्यो व्यन- क्त्यर्थं शब्दोऽप्यर्थान्तराचयः । एकस्य व्यञ्जकत्वे तद- न्यस्य सहकारिता” । यतः शब्दो व्यञ्जकत्वेऽर्थान्तरम- पेक्षते अर्थोऽपि शब्द, तदेकस्य व्यङ्जकत्वे अन्यस्य सह- कारिताऽवश्यमङ्गीकार्य्या । “अभिधादित्रयोप्राधिवैशिष्ट्या- त्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जक- स्तथा” । अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः” सा० द० २
शब्दकल्पद्रुमः
व्यञ्जनं || क्ली (व्यज्यते म्रक्ष्यते अन्नादि संयोज्यते- ऽनेनेति । वि + अञ्ज + ल्युट् ।)
अन्नोपकरणम् । तत्तु सूपशाकादि । इति राजनिर्घण्टः ॥ तत्प- र्य्यायः । तेमनम् २ निष्ठानम् ३ । इत्यमरः ॥ तेमः ४ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ८ । ६७ । २ । “आनो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ॥”)
अस्य गुणाः । “व्यञ्जनं शाकमत्स्याख्यं हृद्यं वृष्यञ्च पुष्टिदम् । द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः । तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत् ॥” इति राजवल्लभः ॥ व्यञ्जनविशेषगुणाः तत्तच्छब्दे द्रष्टव्याः ॥ * चिह्रम् । (व्यञ्जना । यथा, साहित्यदर्पणे । ३ । ५९ । “अवाच्यत्वादिकं तस्य वक्ष्ये वञ्जनरूपणे ॥”)
श्मश्रु । (यथा, महाभारते । १ । १५८ । ३४ । “कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् । बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥”)
अवयवः । दिनम् । इति मेदिनी ॥ स्त्रीपुंसयो- रशुद्धदशः । स तु उपस्थः । अर्द्धमात्रकम् । स तु ककारादिक्षकारान्तवर्णः । इति धरणिः (यथा, साहित्यदर्पणे । १० । ६४० । “सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥”)