संस्कृत-शब्दकोशः

व्यञ्जन व्यञ्जित

व्यञ्जना

शब्दकल्पद्रुमः

व्यञ्जना || स्त्री (वि + अञ्ज + णिच् + युच् । टाप् ।)
शब्दस्य वृत्तिविशेषः । तस्या लक्षणं यथा, —
“विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः । सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥” शब्दबुद्धिकर्म्मणां विरम्य व्यापाराभाव इति नयेनाभिधा लक्षणा तात्पर्य्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वा उपक्षीणासु ययान्योऽर्थो बोध्यते सा शब्दस्यार्थस्य प्रकृति- प्रत्ययादेश्च वृत्तिर्व्यञ्जन-ध्वनन-गमन-प्रत्यायना- दिव्यपदेशविषया व्यञ्जना नाम । तत्र । “अभिधालक्षणामूला शब्दस्य व्यञ्जना द्बिधा ॥” अभिधामूलामाह । “अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते । एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥” आदिशब्दाद्विप्रयोगादयः । उक्तं हि । “संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥” इति ॥ सशङ्खचक्रो हरिरित्यत्र शङ्खचक्रसंयोगेन हरि- शब्दो विष्णुमेवाभिधत्ते । अशङ्खचक्रो हरिरिति तद्बियोगेन तमेव । भीमार्ज्जुनाविति अर्ज्जुनः पार्थः । कर्णार्ज्जुनाविति कर्णः सूतपुत्त्रः । स्थाणुं वन्दे भवच्छिदे इति स्थाणुः शिवः । सर्व्वं जानाति देव इति देवो भवान् । कुपितो मकर- ध्वजः इति मकरध्वजः कामः । देवः पुरारि- रिति पुरारिः शिवः । मधुना मत्तः पिक इति मधुर्वसन्तः । पातु वो दयितामुखमिति मुखं सांमुख्यम् । विभाति गगने चन्द्रः इति चन्द्रः शशी । निशि चित्रभानुरिति चित्रभानुर्वह्रिः । भाति रथाङ्गमिति नपुंसकव्यक्त्या रथाङ्गं चक्रम् । स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषये नोदाहृतम् । इदञ्च केऽप्यसहमाना आहुः स्वरोऽपि काक्कादिरूपः काव्ये विशेष- प्रतीतिकृदेव । उदात्तादिरूपोऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदे- वेति । एतद्विषये उदाहरणमुचितमेव इति तन्न तथाहि स्वराः काक्कादय उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्याययन्ति न खलु प्रकृ- तोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशे- षम् । किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयो- रनुरूपस्वरवशेनैकत्र नियमनं वाच्यं तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः न च तथा अतएवाहुः श्लेषनिरूपणप्रस्तावे काव्यमार्गे स्वरो न गण्यते इति च नय इत्यलमुपजीव्यानां मान्याना व्याख्यानेषु कटाक्षनिक्षेपेण । आदि- शब्दादेतावन्मात्रस्तनीत्यादौ हस्तादिचेष्टा- दिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् । एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्द- स्यान्यार्थबुद्धिहेतुः शक्तिः सा अभिधामूला व्यञ्जना । यथा मम तातपादानां महापात्र- चतुर्द्दशभाषावारविलासिनीभुजङ्गमहाकवी- श्वरश्रीचन्द्रशेखरसान्धिविग्रहिकाणाम् । “दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विश्वग्वृतो भोगिभिः । नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिं धारयन् । गामाक्रम्य विभूतिभूषिततनूराजत्युमावल्लभः ॥” अत्र प्रकरणेनाभिधया उमावल्लभशब्दस्य उमानाम्नी महादेवी तद्वल्लभभानुदेवनृपति- रूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपो- ऽर्थो बोध्यते । एवमन्यत् ॥ * ॥
लक्षणामूला- माह । “लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् । यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥” गङ्गायां घोष इत्यादौ जलमयाद्यर्थबोधनादभि- धायां विरतायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादि- र्बोध्यते सा लक्षणामूला व्यञ्जना ॥ * ॥
एवं शाब्दीं व्यञ्जनामुक्त्वा आर्थीं व्यञ्जनामाह । “वक्तृबोद्धव्यवाक्यानामन्यसन्निधिवाच्ययोः । प्रस्तावकालदेशानां काकोश्चेष्टादिकस्य च । वैशिष्ट्यादन्यमर्थं या बोधयेत् सार्थसम्भवा ॥” व्यञ्जना इति संवध्यते । तत्र वक्तृवाक्यप्रस्ताव- देशकालवैशिष्ट्ये यथा मम । “कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः । केलीवनीयमपि वञ्जुलकुञ्जमञ्जु- र्दूरे पतिः कथय किं करणीयमद्य ॥” अत्र एतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचित् द्योत्यते ॥ * ॥
बोद्धव्यवैशिष्ट्ये यथा, —
“निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडा- गमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्या- न्तिकम् ॥” अत्र तदन्तिकमेव गतासीति विपरीतलक्षणया लक्ष्यं तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्य दूती- वैशिष्ट्याद्बोध्यते ॥ * ॥
अन्यसन्निधिवैशिष्ट्ये यथा, —
“उअ निच्चल णिप्फन्दाभिसिनी पत्तम्भि रेहै बलाआ । णिम्मल मरगअ भाअण परिट्ठिआ संख सुत्तिव्व ॥” अत्र बलाकाया निष्पन्दत्वेन विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः सङ्केतस्थानमेतदिति कयापि सन्निहितप्रच्छन्नकामुकं प्रत्युच्यते । अत्रैव स्थाननिर्जनत्वरूपव्यङ्ग्यार्थवैशिष्ट्यं प्रयो- जनम् । “भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते ॥” इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्यो ज्ञातव्याः ॥ * ॥
एतद्वैशिष्ट्ये यथा, —
“गुरुपरतन्त्रतया वत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नेष्यति सखि ! सुरभिसमयेऽसौ ॥” अत्र नेष्यतीत्यपि तर्हि एष्यत्येव इति काक्वा व्यज्यते ॥ * ॥
चेष्टावैशिष्ट्ये यथा, —
“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥” अत्र सन्ध्या सङ्केतकाल इति पद्मनिमीलनादि- चेष्टया कयात्तित् द्योत्यते । एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ॥ * ॥
“त्रैधिध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥” अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्व्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्या- र्थस्य व्यञ्जना यथा । कालो मधुरित्यादि ॥ लक्ष्यार्थस्य यथा । निःशेषच्युतचन्दनमित्यादि ॥ व्यङ्ग्यार्थस्य यथा । उअ णिच्चल इत्यादि ॥ * ॥
प्रकृतिप्रत्ययादिव्यञ्जनन्तु प्रपञ्चयिष्यते । “शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥” यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्ष्यते । अर्थो- ऽपि शब्दं तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारि- त्वमवश्यमङ्गीकरणीयम् । “अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥” अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः । किञ्च । “तात्पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने । तात्पर्य्यार्थं तदर्थञ्च वाक्यं तद्बोधकं परे ॥” अभिधाया एकैकपदार्थबोधनविरमात् वाक्यार्थ- रूपस्य पदान्वयस्य बोधिका तात्पर्य्या नाम वृत्तिस्तदर्थश्च तात्पर्य्यार्थस्तद्बोधकञ्च वाक्यमित्य- भिहितान्वयवादिनां मतम् । इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परि- च्छेदः ॥



Correction: