वाचस्पत्यम्
व्यतिकर || पु० वि + अति—कॄ—अप् । व्यतिसम्बन्धे २ व्यसमे च मेदि० ।
शब्दकल्पद्रुमः
व्यतिकरः || पुं, (वि + अति + कृ + अप् ।)
व्यसनम् । (यथा, कथासरित्सागरे । ७४ । ८९ । “अस्मिन् व्यतिकरे वृत्ते शत्रुतामेव ते गतः ॥”)
व्यतिषङ्गः । इति मेदिनी ॥ (विनाशः । यथा, भागवते । १ । ७ । ३२ । “प्रजोपद्रवमालक्ष्य लोकव्यतिकरञ्च तम् । मतञ्च वासुदेवस्य संजहारार्ज्जुनो द्वयम् ॥” मिश्रणम् । यथा, माघे । ४ । ५३ । “अन्योन्यव्यतिकरचारुभिर्विचित्रै- रत्रस्यन्नवमणिजन्मभिर्मयूखैः ॥”)