वाचस्पत्यम्
व्यतिक्रम || पु० वि + अति + क्रम—घञ् न वृद्धिः । १ विपर्य्यये “विवाहे च व्यतिक्रमः” उ० त० । २ विशेषतोऽतिक्रमे च ।
शब्दकल्पद्रुमः
व्यतिक्रमः || पुं, (वि + अति + क्रम + घञ् ।)
क्रम- विपर्य्ययः । यथा, —
“सर्व्वत्र प्राङ्मुखो दाता ग्रहीता च उदङ्मुखः । एष एव विधिर्दाने विवाहे च व्यतिक्रमः ॥” इत्युद्बाहतत्त्वम् ॥