व्यथक
व्यथित
व्यथा
वाचस्पत्यम्
व्यथा || स्त्री व्यथ—भावे अङ् । १ पीडायाम् २ दुःखे च अमरः ।
शब्दकल्पद्रुमः
व्यथा || स्त्री (व्यथ + अङ् । टाप् ।)
दुःखम् । इत्यमरः ॥ (यथा, उत्तरचरिते । १ । “स्नेहं दयां तथा सौख्यं यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥”)