वाचस्पत्यम्
व्यवसाय || पु० वि + अव + सो—घञ् । १ उद्यमे “मरणव्यवमायबु- द्धिम्” कुमारः । ३ उपजीविकायाम् ३ अनुष्ठाने ४ अवधारणे च “व्यवसायात्मिका बुद्धिः” गीता । ५ विष्णौ विष्णुस० ।
शब्दकल्पद्रुमः
व्यवसायः || पुं, (वि + अव + सो + घञ् ।)
उप- जोविका । पेशा इति पारस्यभाषा । यथा, —
“करोति नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥” इति हितोपदेशे २ परिच्छेदः ॥ अपि च । “आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥” इति चाणक्यशतकम् ॥ अनुष्ठानम् । इति व्यवसायिशब्दार्थदर्शनात् ॥ (यथा, रामायणे । २ । ३० । ४१ । “सर्व्वथा सदृशं सीते ! मम स्वस्य कुलस्य च । व्यवसायमनुक्रान्ता कान्ते ! त्वमतिशोभनम् ॥”)
निश्चयः । यथा, —
“ब्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥” इति भगवद्गीतायाम् २ अध्यायः ॥ व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे कर्म्मयोगे व्यवणायात्मिका परमेश्वरभक्त्यैक ध्रुवं तरिष्यामीति निञ्चयात्मिका एकैव एकनिष्ठैव बुद्धिर्भवति । अव्यबसायिनामीश्वराराधनबहि- र्मुखानां कामिनां कामनानन्त्यादनन्तास्तत्रापि कर्म्मफल-गुणफलत्वादि-प्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । इति तट्टीकायां स्वामी ॥ विष्णुः । यथा, —
“व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥” इति महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ५५ ॥ (महादेवः । यथा, तत्रैव । १३ । १७ । ५० । “सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥”)