संस्कृत-शब्दकोशः

व्यंसक व्यसनार्त

व्यसन

वाचस्पत्यम्

व्यसन ||‍ न० वि + अस—ल्युट् । १ विपत्तौ २ भ्रंशे कामजाते कोपजाते च स्त्रीभोगमद्यपानादौ ३ दोषे ४ दैवादिकृते उपद्रवे च ५ पापे ६ निष्फलाद्यमे मेदि० । “व्यसनान्याह मनुः कामजेषु प्रसक्तो हि व्यसनेषु मही- पतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्व त्मनैव तु । मृगया १ क्षो २ दिवास्वप्नः ३ परीवाद ४ स्त्रियो ५ मदः ६ । “तौर्य्यत्रिकं ७ । ८ । ९ वृथाढ्या १० च कामजो दशकोगणः । पैशुन्यं १ साहसं २ द्रोह ३ ईर्षा ४ ऽसूया ५ र्थदूषणम् ६ । बाग्दण्डजञ्च पारुष्यं ७ । ८ क्राधजोऽपि गणोऽष्टकः” । तौर्य्यत्रिकं नृत्यगोतवाद्यानि त्रीणीति दश । पैशु न्यमविज्ञातपरदोषाविष्करणम् । साहसं साधोर्बन्धना- दिना निग्रहः । द्रोहो जिघांसा । ईर्षा अन्यगुणास- हिष्णुता । असूया परगुणेष दोषाविष्करणम् । अर्थ- दषणम् अर्थानामपहरणं देयानामदानञ्च” मल० रघु० ।


शब्दकल्पद्रुमः

व्यसनं || क्ली (वि + अस + ल्युट् ।)
विपत् । (यथा, महाभारते । १२ । २२७ । ७ । “पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा । मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ! ॥”)
भ्रंशः । (यथा, मनौ । ७ । ९३ । “नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षितम् ॥”)
कामजकोपजदोषः । इत्यमरः ॥ (यथा, कथा- सरित्सागरे । ११ । २५ । “तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः । सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥” यथा च भागवते । ४ । २६ । २६ । ४ । “विहाय जाया मतदर्हां मृगव्यसनलालसः ॥” “व्यसनं भोगासक्तिः ।” इति श्रीधरः ॥)
विपत् विपत्तिः । भ्रंशोऽपायः पतनम् । मृगयाद्यूतस्त्री- मद्यपानस्वरूपे चतुर्व्वर्गे प्रसक्तिः कामजो दोषः । इच्छाप्रभवत्वात् । वाक्पारुष्यं अर्थ- पारुष्यञ्चेति त्रिवर्गः कोपजो दोषः । कोपप्रभवत्वात् । एषु व्यसनम् । व्यस्यति श्रेयो- मार्गात् व्यसनं कर्त्तरि अनट् । भ्रंशे तु भावे । इति भरतः ॥ (अत्यासक्तिः । यथा, कथा- सरित्सागरे । ११ । ३२ । “शिथिली कृतकैलासनिवासव्यसनो हरः ॥”)
अशुभम् । दैवानिष्टफलम् । पापम् । निष्फलो- द्यमः । इति मेदिनी ॥ * ॥
राज्ञां व्यसनानि यथा, “मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ॥” इति हेमचन्द्रः ॥ * ॥
व्यसनासक्ते दोषो यथा, —
“एकैकविषयासक्ताः सर्व्वे मृत्युवशं गताः । यः पुनः संहतान् सेवेत् विषयान् विषयी नरः । स पतेन्महदैश्वर्य्याच्छिन्नमूल इव द्रुमः ॥ स्त्रियः पानं दिवास्वप्नं तथा वादित्रनर्त्तनम् । द्यूताटनमृगागेयकामजानि तथा परे ॥ दण्डैर्वाचा ईर्ष्यासूया क्रोधपैशुन्यसाहसम् । अर्थ दूषणक्रोधोऽर्थे अष्टकोपं विनाशकृत् ॥ देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः । पशवः पक्षिणः सर्व्वे विषये निधनं गताः ॥ एवं विवेकमासक्तं बुद्ध्वा घोरं नराधिप । धव्यर्म्माजं समास्थाय विषयैः सन्निवेश्यताम् ॥” इति देवीपुराणे ८ अध्यायः ॥



Correction: