वाचस्पत्यम्
व्याघात || त्रि० वि + आ + हन—घञ् । १ अन्तराये २ प्रहारे मेदि० ३ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०५ पृ० दृश्यम् । ४ प्रतिबन्धे “व्याघातावधिराशङ्का” कुसुञ्जलिः । विष्क- म्भादिसप्तविंशतियोगमध्ये ५ त्रयोदशे योगे च ।
शब्दकल्पद्रुमः
व्याघातः || पुं, (वाहन्यतेऽनेनेति । वि + आ + हन + घञ् ।)
विष्कम्भादिसप्तविंशतियोगान्त- र्गतत्रयोदशयोगः । यथा, —
“परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् । त्यजादौ पञ्च विष्कम्भे सप्त शूले न नाडिकाः ॥ गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलम् । “व्याघातकर्त्ता च सतां नितान्तं व्याघातजन्मा मनुजः कठोरः । असत्यभाषी कृपया विहीनो मन्देक्षणो दीर्घतनुः कृशाङ्गः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
अन्तरायः । (यथा, महाभारते । १ । २ । २८८ । “तेन व्याषातमन्त्राणां क्रियमाणमवेक्ष्य च ॥”)
प्रहारः । इति मेदिनी ॥ अलङ्कारविशेषः । तस्य लक्षणं यथा, —
“यद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥” येनोपायेन यत् एकेन उपकल्पितं तस्यान्येन जिगीषुतया तदुपायकमेव यदन्यथाकरणं स स्वसाधितवस्तुव्याहतिहेतुत्वात् व्याघातः । उदाहरणम् । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ता स्तुमो वामलोचनाः ॥” इति काव्यप्रकाशे १० उल्लासः ॥