वाचस्पत्यम्
व्याज || पु० वि + अज + घञ् वीभावाभावः । १ कपटे बञ्चना- फले २ असत्यव्यवहारे कारणान्तरेण ३ प्रवृत्तस्य कारणा- न्तरत्वेनोद्भावनरूपे अपदेशे च अमरः ।
शब्दकल्पद्रुमः
व्याजः || पुं, (व्यजति यथार्थव्यवहारादपगच्छत्य- नेनेति । वि + अज + घञ् । घञि विभावो नास्ति ।)
कपटः । स तु अयथार्थव्यवहारः । वञ्चनमात्रफलम् । इति सर्व्वानन्दो मधुश्च ॥ अपदेशः । स कारणान्तरप्रवृत्तेः कारणान्त- रोद्भावनम् । व्याजोऽत्र स्वरूपाच्छादनम् । यथा ध्यानव्याजमुपेत्य चिन्तयसि कामिति । व्याजो- ऽयमभिप्रायगोपनफलः । पूर्व्वोक्तन्तु परापकार- फलः । इत्ययथार्थव्याजयोर्भेदः । अन्यमुद्दिश्य अन्यपतिपादनमिह व्याज इत्यर्थः । यदाह अन्यमुद्दिश्य अन्यार्थमनुष्ठानं अपदेशः । यथा, जलक्रीडामुद्दिश्य जारावलोकनार्थं यातीति । इत्यमरभरतौ ॥