वाचस्पत्यम्
व्यापार || पु० वि + आ + पृ—घञ् । “व्यापारो भावना सैवोत्पा- दना सैव च क्रिया” हर्य्युक्तायां १ भावयितुः उत्पादन- क्रियायाम् । बणिजो २ व्यवसाये च । करणजन्ये करणजन्यक्रियाजनके ३ पदार्थे यथा दात्ररूपकरणजन्यः तज्जन्यच्छेदजनकः छेद्यसंयोगादि एवमिन्द्रियस्य व्यापारः विषयसंयोगा । “विषयेन्द्रिय- संयोगो व्यापारः सोऽपि षड्विधः” भाषा० । एवं यागादेः व्यापारः अदृष्टम् । व्यापारवत् कारणं करणमिति । “क्रियायाः परिनिष्पत्तिर्यड्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्” हरिकारिका ।
शब्दकल्पद्रुमः
व्यापारः || पुं, (वि + आ + पृ + घञ् ।)
कर्म्म । यथा, —
“स्यात् प्राणवियोगफलको व्यापारो हननं स्मृतम् । रागाद्द्वषात् प्रमादाद्बा स्वतः परत एव वा ॥” इति प्रायश्चित्ततत्त्वधृताग्निपुराणवचनम् ॥ (साहाय्यम् । इति मल्लीनाथः ॥ यथा, कुमारे । ६ । ३२ । “आर्य्याप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति । प्रायेणैवंविधे कार्य्ये पुरन्ध्रीणां प्रगल्भता ॥” तज्जन्यत्वे सति तज्जन्यजनकः । इति न्याय- शास्त्रम् ॥ यथा, भाषापरिच्छेदे । “विषयेन्द्रियसंयोगो व्यापारः सोऽपि षड्- विधः ॥”)