वाचस्पत्यम्
व्यापारिन् || त्रि० व्यापारोऽस्त्यस्य इनि । १ व्यापारवति कर णादौ “न हि व्यापारेण व्यापारिणोऽन्यथा सिद्धि” । २ व्यवसायवति वणिग्जने पु० ।
शब्दकल्पद्रुमः
व्यापारी || [न्] त्रि, (व्यापारोऽस्यास्तीति । व्यापार + इनिः ।)
व्यापारविशिष्टः । व्यव- स्रायी । यथा, —
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः । स याति नागवेष्टञ्च नागैर्वेष्टित एव च ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥