वाचस्पत्यम्
व्यायत || त्रि० वि + आ + यम—क्त । १ दीर्घे २ व्यापृते ३ दृढे ४ अतिशये च मेदि० । भावे—क्त । ५ दैर्घ्ये ६ आयामे च न० मेदि० ।
शब्दकल्पद्रुमः
व्यायतं || त्रि (विशेषेण आयतम् ।)
व्यापृतम् । दैर्घ्यम् । (यथा, शाकुन्तले । २ । “अपचितमपि गात्रं व्यायतत्वादलक्ष्यं । गिरिचर इव नागः प्राणसारं विभर्त्ति ॥”)
दृढम् । अतिशयः । इति मेदिनी ॥