संस्कृत-शब्दकोशः

व्यायत व्यायोग

व्यायाम

वाचस्पत्यम्

व्यायाम ||‍ पु० वि + आ + यम—घञ् । १ श्रमे २ श्रमसाधने व्यापारे ३ पौरुषे ४ दुर्गसस्कारे ५ विषमे मेदि० ६ मल्लानां श्रम- कारके व्यापारे (कुस्ति) ७ व्यामपरिमाणे च हेमच० ।


शब्दकल्पद्रुमः

व्यायामः || पुं, (वि + आ + यम + घञ् ।)
पौरुषः । (यथा, महाभारते । ४ । ३८ । ७ । “व्यायामसहमत्यर्थं तृणराजसमं महत् । सर्व्वायुधमहामात्रं शत्रुसंवादकारकम् ॥”)
श्रमः । (यथा, महाभारते । १ । १७६ । ६ । “व्ययामकर्षितः सोऽथ मृगलिप्सुः पिपासितः । आजगाम नरश्रेष्ठ वशिष्ठस्याश्रमं प्रति ॥”)
विषमः । दुर्गसञ्चारः । इति मेदिनी ॥ व्यामः । इति हेमचन्द्रः ॥ मल्लक्रीडा । कुस्ती इति पारस्य भाषा । (यथा, महाभारते । १२ । २१ । ७ । “अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः ॥”)
अस्य गुणादि यथा, —
“व्यायामो हि सदा पथ्यो बालनां स्निग्ध- भोजिनाम् । स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥ सर्व्वेष्वृतुषु सर्व्वैर्हि शूरैरात्महितार्थिभिः । शक्त्यर्द्धेन तु कर्त्तव्यो व्यायामो हन्त्यतो व्यथाम् ॥ कुक्षौ ललाटे ग्रीवायां यदा घर्म्मः प्रवर्त्तते । शक्त्यर्द्धं तं विजानीयादायतोच्छ्वासमेव च ॥ लाघवं कर्म्मसामर्थ्यं स्थैर्य्यं क्लेशसहिष्णुता । दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ व्यायामं कुर्व्वतो नित्यं विरुद्धमपि भोजनम् । विदग्धमविदग्धं वा निर्द्दोषं परिपच्यते ॥ न स व्यायामसदृशमन्यत् स्थौल्यापकर्षणम् । न च व्यायामिनं मर्त्यं मर्द्दयन्त्यरयो बलात् ॥ न चैनं सहसाक्रम्य जरा समधिगच्छति ॥ व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्त्तितस्य च । व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥ रक्तपित्ती क्षयी शोषी कासी श्वासी क्षतातुरः । भुक्तवान् स्त्रीषु च क्षीणो व्यायामं परिवर्जयेत् ॥ वातपित्तामयी बालो वृद्बोऽजीर्णी च संत्यजेत् । अतिव्यायामतः कासो रक्तपित्तं प्रजायते ॥ श्रमः क्लमः क्षयस्तृष्णा ज्वरश्छर्द्दिश्च जायते ॥” इति राजवल्लभः ॥



Correction: