वाचस्पत्यम्
व्यूह || पु० वि + जह—घञ् । १ समूहे २ निर्माणे च ३ सम्यक- तर्के ४ देहे ५ सैन्ये ६ युद्धार्थं सैन्यसन्निवेशनविशेषे अमरः । “समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः । स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् । व्यूहभेदाश्च च- त्वारो दण्डोभोगस्तु मण्डलम् । असंहतश्च निर्णीता नीतिसारादिसम्मताः । अन्येऽपि प्रकृतिव्यूहाः क्रौञ्च चक्रादयः क्वचित् । तिर्य्यग्वृत्तिश्च दण्डः स्याद् भोगोऽ- न्वावृत्तिरेव च । मण्डल सर्वतो वृत्तिः पृथग्वृत्तिरसं- हतः” शब्दर० । शुक्रनीतिसारे तद्भेदादिकमुक्तं यथा “नद्यद्रिवनदुर्गषु यत्र यत्र भयं भवेत् । सेनापतिस्तत्र यत्र तच्छेद् व्यूहकृतैर्वलैः । यायाद् व्यूहेन महता म- करेण पुरोभये । श्येनेनोभयपक्षेण सूच्या वा धीर- वक्त्रया । पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञकम् । सर्वतः सर्वतोभद्रं चक्रं व्यालमथापि वा । यथादेर्श कल्पयेद् वा शत्रुसेनाविभेदकम् । व्यूहरचनसङ्केतान् वाद्यभाषासमीरितान् । स्वसैनिकैर्विना कोऽपि न जः- नीयात् तथाविधान् । नियोजयेच्च मतिमान् व्यूहान् नानाविधान् सदा । अश्वानाञ्च गजानाञ्च पदातीनां पृथक् पृथक् । उच्चैः संश्रावयेद् व्यूहसङ्केतान् सैनिकान् नृपः । वामदक्षिणसंस्थो वा मध्यस्थो वाऽग्रसंस्थितः । श्रुत्वा तान् सैनिकैः कार्य्यमनुशिष्टं यथा तथा । सम्मी- लनं प्रसरणं परिभ्रमणमेव च । आकुञ्चनं तथा यानं प्रयाणमपयानकम् । पर्य्यायेण च साम्मुख्यं समुत्थानञ्च लुण्ठनम् । संस्थानं चाष्टदलचच्चक्रवद्गोलतुल्यकम् । सू- चोतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा । पृथग्भवनमल्पाल्पैः पर्य्यायैः पङ्क्तिवेशनम् । शस्त्रास्त्रयोर्धारणञ्च सन्धानं लक्ष्यभेदनम् । मोक्षणञ्च तथाऽस्त्राणां शस्त्राणां परि- धातनम् । द्राक् सन्धानं पुनः पातो ग्रहो मोक्षः पुनः पुनः । स्वगूहनं प्रतीघातः शस्त्रास्त्रपदविक्रमैः । द्वाभ्यां त्रिभिश्चतुर्भिर्वा पङ्क्तितो गमनं ततः । तथा प्राग्- भवनं चापसरणं तूपसर्जनम् । अपसृत्यास्त्रसिद्ध्यर्थ- मुपसृत्य विमोक्षणम् । प्राग्भूत्वा मोचयेदस्त्रं व्यूहस्थः सैनिकः सदा । आसीनः स्याद्विमुक्तास्त्रः प्राग्वा चाप- सरेत् पुनः । प्रागासीनं तूपसृतो दृष्ट्वा स्वास्त्रं विमो- चयेत् । एकैकशो द्विशो वापि सङ्घशो बोधितो यथा । क्रौञ्चानां खे गतिर्यादृक् पङ्क्तितः सम्प्रजायते । तादृक् सञ्चारयेत् क्रौञ्चव्यूहं देशबलं यथा । सूक्ष्मग्रीवं मध्यपुच्छं स्थूलपक्षन्तु पङ्क्तितः । वृहत्पक्षं मध्यगल- पुच्छं श्येनं मुखे तनु । चतुष्पान्मकरो दीर्घस्थूल- वक्त्रद्विरोष्ठकः । सूची सूक्ष्ममुखो दीर्घसमदण्डान्तर- न्ध्रयुक् । चक्रव्यूहश्चैकमार्गो ह्यष्टधा कुण्डलीकृतः । चतुर्दिक्ष्वष्टपरिधिः सर्वतोभद्रसंज्ञकः । अमार्गश्चाष्टवलयी गोलकः सर्वतोमुखः । शकटः शकटाकारो व्यालो व्यालाकृतिः सदा । सैन्यमल्पं वृहद्वापि दृष्ट्वा मार्गं रण स्थलम् । व्यूहैर्व्यूहेन व्यूहाभ्यां सङ्करेणापि कल्प- येत” ।
शब्दकल्पद्रुमः
व्यूहः || पुं, (वि + ऊह + घञ् ।)
समूहः । निर्म्मा- णम् । तर्कः । इति मेदिनी ॥ देहः । (यथा, भागवते । ११ । ६ । १० । “यः सात्वतैः समविभूतय आत्मवद्भि- र्व्यूहेऽर्च्चितः सवनशः स्वरतिक्रमाय ॥”)
सैन्यः । इति त्रिकाण्डशेषः ॥ (परिणामः । लिङ्गम् । यथा, भागवते । ४ । २९ । ७० । “यावद्बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥”)
युद्धार्थसेनारचना । तत्पर्य्यायः । बलविन्यासः २ । इत्यमरः ॥ “युद्धार्थं सैन्यस्य देशविशेषे विभज्य दुर्लङ्घ्यत्वनिमित्तं स्थापनं व्यूहः । ऊह वितर्के विपूर्ब्बात् घञ् । युद्धे दण्डादयो भेदा विशेषा व्यूहस्येत्यर्थात् आदिना भोगमण्डलसं हतानां ग्रहः । यथाह कामन्दकिः । तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलं सर्व्वतो वृत्तिः पृथग्वृत्तिरसंहतः ॥ इति ॥ एषां चतूर्णाञ्च बहवो भेदाः क्रौञ्चचक्रादयो ग्रन्थगौरवभयान्नोक्ताः । इति भरतः ॥ अपि च । “समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः । स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् ॥ व्यूहभेदास्तु चत्वारो दण्डो भोगोऽस्त्रमण्डलम् । असंहतश्च निर्णीता नीतिसारादिसम्मताः ॥ अन्येऽपि प्रकृतिव्यूहाः क्रौञ्चचक्रादयः क्वचित् । तिर्य्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च ॥ मण्डलं सर्व्वतो वृत्तिः पृथग्वृत्तिरसंहतः । सैन्यानां नीतिसारादौ व्यूहभेदाः समीरिताः । क्रौञ्चचक्रादिभेदानां लक्षणं भारतादिषु ॥” इति शब्दरत्नावली ॥ (यथा च कामन्दकीयनीतौ । १९ । २९ — ५७ । “सर्व्वव्यूहविधानज्ञा युद्धकर्म्मसु कर्म्मणः ॥ उरः कक्षे च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः । कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह इष्यते ॥ उरश्च कक्षपक्षौ च व्यूहोऽयं सप्रतिग्रहः । गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्ज्जितः ॥ अभेद्याः कुलजा मेध्या लब्धलक्ष्याः प्रहारिणः । सेनाङ्गपतयः कार्य्या दृष्टयुद्धप्रतिक्रियाः ॥ प्रवीरपुरुषैरेतैस्तिष्ठेयुः परिवारिताः । अभेदेन च युद्ध्येरन् रक्षेयुश्च परस्परम् ॥ फल्गु सैन्यस्य यत्किञ्चिन्मध्ये व्यूहस्य तद्भवेत् । युद्धवस्तु च यत्किञ्चित्प्रायस्तज्जघने भवेत् ॥ युद्धार्थं युद्धकुशलं चण्डानीकं प्रयोजयेत् । युद्धं हि नायकप्राणं हन्यते तदनायकम् ॥ व्यूहोऽनुपृष्ठमचलः पत्त्यश्वरथदन्तिभिः । तथाप्रतिहतो ज्ञेयो हस्त्यश्वरथपत्तिभिः ॥ मध्ये देशे हयानीकं रथानीकं तु कक्षयोः । पक्षयोश्च गजानीकं व्यूहोऽन्तभिदयं स्मृतः ॥ रथस्थाने हयान्दद्यात्पदातींश्च हयाश्रये । रथाभावे तु मतिमान्नागानेव प्रकल्पयेत् ॥ विभज्य प्रक्षिपेन्मध्ये पत्त्यश्वरथकुञ्जरान् । मध्ये कुर्व्वीत नागेन्द्रान् पत्त्यश्वरथवारितान् ॥ धनुः सूची च दण्डश्च शकटो मकरध्वजः ॥ इत्यादयो महाव्यूहास्तदाकारान् प्रकल्पयेत् ॥ यदि स्याद्दण्डबाहुल्यं तदा चापः प्रकीर्त्तितः । मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिमिः ॥ कथिताः प्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः । यः स तं व्यूह्य मतिमान् काले स्थाने प्रकल्पयेत् ॥ तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगत्वाद्वृत्तिरेव च । प्रदरो दृढकोऽसह्यश्चापो वै तद्बिपर्य्ययः ॥ प्रतिष्ठः सुप्रतिष्ठश्च श्येनी विजयसञ्जयौ । विशालविजयः सूची स्थणाकर्णश्चमूमुखः ॥ सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः । अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः ॥ अतिक्रान्तश्च पक्षाभ्यां त्रयोऽन्यस्तु विपर्य्ययः । स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः ॥ द्विगुणान्तस्त्वतिक्रान्तपक्षोऽन्योऽस्य विपर्य्ययः । द्बिचतुर्द्दण्ड इत्येवं ज्ञेया लक्षणतः क्रमात् ॥ गोमूत्रिकाहिसञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥ दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः । मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः ॥ मण्डलव्यूहभेदौ च सर्व्वतोभद्रदुर्ज्जयौ । गजानीको द्वितीयस्तु प्रथमः सर्व्वतोमुखः ॥ अर्द्धचन्द्रक उद्धारो वज्रो भेदास्त्वसंहतेः । तथा कुक्कुटशृङ्गी च काकपादी च गोधिका ॥ त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः । इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः ॥ एते सप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा । तथा व्यूहद्वयञ्चैव मण्डलस्य प्रयोक्तृभिः ॥ असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा । व्यूहज्ञैस्तु प्रयोज्याः स्युर्युद्धकाल उपस्थिते ॥ पक्षादीनामनीकेन हत्वा शेषं परिक्षिपेत् । तरसा च समाहत्य कोटिभ्यां परिवेष्टयन् ॥ परकोटिमुपक्रम्य पक्षाभ्यामप्रतिग्रहः । कोटिभ्यां जघने हन्यादुरसा च प्रपीडयेत् ॥ एवं व्यूहप्रयत्नेन यत्नवानवनीपतिः । विदारयेद्व्यूहजातं बलैश्च द्बिषताम्बलम् ॥”)