संस्कृत-शब्दकोशः

शकाब्द शकारि

शकार

वाचस्पत्यम्

शकारः ||‍ ऊष्मवर्णभेदः । अस्योच्चारणस्थानं तालु । तस्यो- च्चारणे आभ्यन्तरप्रयत्नः विवृतम् । बाह्यप्रयत्ना विवार- श्वासाघोषा महाप्राणश्च । अस्य ध्येयस्वरूपम् “श- कारं परमेशानि! शृणु वर्णं शुचिस्मिते! । रक्तवर्ण- प्रभाकारं स्वयं परमकुण्डली । चतुर्वर्गप्रदं देवि! शकारं ब्रह्मविग्रहम् । पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये । रजःसत्त्वतमोयुक्तं त्रिविन्दुसहितं सदा । त्रि- शक्तिसहितं घर्णमात्मादितत्त्वसंयुतम्” कासधेनुतन्त्रम् । अस्य वाचकशब्दा योगिनीतन्त्रोक्ता यथा “शः स- व्यश्च कामरूपी कामरूपो महामतिः । सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः । वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी । मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी । बाहुर्हंसो वियद्वक्त्रं हृदनङ्गोऽङ्कुशः खनः । वामोरुः पुण्डरीकाक्षः कान्तिः कल्याणवा- चकः” । मातृकान्यासेऽस्य हृदादिदक्षकरे न्यास्यता । काव्यादौ प्रथमप्रयोगे सुखं फलम् । “शः सुखं षस्तु- स्वेदम्” वृ० त्त० टी० ।


वाचस्पत्यम्

शकार ||‍ पु० “मदमूंर्खताभिमानी दुष्कुलतैश्वर्य्यसंयुक्तः । सो- ऽयमनूढाभ्राता राज्ञः श्यालः शकार उद्दिष्टः” सान्द० उक्तलक्षणे १ राज्ञोऽनूढभार्य्याभ्रातरि । श + स्वरूपे—कार शस्वरूपे २ वर्णे च ।


शब्दकल्पद्रुमः

शकारः || पुं, राज्ञः अनूढायाः स्त्रिया भ्राता । यथा, साहित्यदर्पणे ३ परिच्छेदे ॥ “मदमूर्ख्रताभिमानी दुष्कुलतश्वर्य्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥”



Correction: