वाचस्पत्यम्
शकुनि || पु० शक—उनि! १ पक्षिमात्रे अमरः । २ चिल्लप- क्षिणि हेमच० । ३ सुवलराजपुत्रे दुर्य्योधनमातुले च । ३ श्यामापक्षिणि स्त्री ङीप् राजनि० । ४ ववादिषु करण- भेदे पु० ५ दुःसहनृपपुत्रे पु० मार्कण्डे यपु० । विकृतिनृप- पुत्रभेदे पु० वह्निपु० ।
शब्दकल्पद्रुमः
शकुनिः || पुं, (शक्नोति उन्नेतुमात्मानमिति । शक + “शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ । इति उनिः ।)
पक्षी । इत्यमरः ॥ (यथा, मनुः । ५ । ११ । “क्रव्यादान् शकुनीन् सर्व्वांस्तथा ग्राम- निवासिनः । अनिद्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्जयेत् ॥”)
चिल्लपक्षी । इति हेमचन्द्रः ॥ सौवलः । स तु कौरवमातुलः । (अयं हि दुर्य्योधनमन्त्री । द्यूते पाण्डवान् जित्वा वनं प्रेरयामास । असौ हि कौरवयुद्धे सहदेवेन निहतः । एतद्विवरणं महा- भारते शल्यपर्व्वणि द्रष्टव्यम् ॥)
ववाद्येकादश- करणान्तर्गताष्टमकरणम् । इति मेदिनी ॥ तत्करणजातफलम् । “परजनधनहर्त्ता वञ्चकः क्रूरचेष्टः करधृतकरवालो व्याहतस्वामिपक्षः । अतिशयपरदारासक्तचित्तः सरोषो भवति शकुनिजन्मा मानवः शीघ्रकर्म्मा ॥” इति कोष्ठीप्रदीपः ॥ * ॥
दुःसहपुत्त्रः । यथा, —
“दुःसहस्याभवत् भार्य्या निर्म्माष्टिर्नाम नामतः । जाता कलेस्तु पाप्मायां ऋतौ चण्डालदर्शनात् ॥ तयोरपत्यान्यभवन् जगद्ब्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥ दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथा परः । अङ्गधुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥” तस्य पञ्च पुत्त्रा यथा, —
“श्येनकाककपोतांश्च गृघ्रोलूकौ च वै सुतान् । अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ॥ श्येनं जग्राह वै मृत्युः काकं कालो गृहीत- वान् । उलूकं निरृतिश्चापि जग्राहातिभयावहम् ॥ गृध्रं व्याधिस्तदीशोऽथ कपोतञ्च स्वयं यमः । एतेषामेव चैवोक्ताः कृताः पापोपपादने ॥ तस्मात् श्येनांदयो यस्य निलीयन्ते शिरस्यथ । तेनात्मरक्षणायालं शान्तिः कार्य्या द्विजोत्तम ॥ गेहे प्रसूतिरेतेषां तद्बन्नीडनिवेशनम् । न शस्तं वर्जयेद्गेहं कपोताक्रान्तमस्तकम् ॥ श्येनः कपोतो गृध्रो वा कौशिको वा गृहे द्विजः । प्रविष्टः कथयन्त्यन्तं वसतां तत्र वेश्मनि ॥ ईदृक् परित्यजेद्गेहं शान्तिं कुर्य्याद्द्विजोत्तम । स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ॥” इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा- ध्यायः ॥ * ॥
विकुक्षिपुत्त्रः । यथा, —
“वैवस्वतमनोरासीदिक्ष्वाकुः पृथिवीपतिः । तस्य पुत्त्रशतं चासीद्बिकुक्षिर्ज्येष्ठ उच्यते ॥ सोऽयोध्याधिपतिर्वीरस्तस्य पञ्चदश स्मृताः । शकुनिप्रमुखाः पुत्त्रा रक्षिता रोमहर्षिताः ॥” इति वह्निपुराणे सगरोपाख्याननामाध्यायः ॥