वाचस्पत्यम्
शकुन्तला || स्त्री० शकुन्तैः लायते ला—घञर्थे—क । मेनका- गर्भजातायां विश्वासित्रसुतायाम् सा च जातमात्रा मात्रोत्सृष्टा शकुन्तलालिता पश्चात् कण्वमुनिना प्रति- पालिता दुष्मन्तनृपेण गान्धर्वविधिना व्यूढेति “निर्जने तु वने यस्मात् शकुन्तैः परिपालिताः । शकुन्तलोत लामास्याः कृतं चापि ततो मया” भा० आ० ७२ अ० । शकुन्तलामधिकृत्य कृतो ग्रन्थः । अण् आख्याकिकायां तस्य वा लुक् । कालिदासप्रणीते शकन्तलाधिकारेण कृते २ नाटकभेदे च अणाऽए कि तु शाकुन्तल तत्रार्थे न० ।
शब्दकल्पद्रुमः
शकुन्तला || स्त्री (शकुन्तैः पक्षिभिर्लाल्यते पाल्यते इति । ला + घञर्थे कः । स्त्रियामाप् ।)
मेन- काप्सरःसु विश्वामित्रेण जनिता कन्या । सा कण्वमुनिना प्रतिपालिता । दुष्मन्तराजेन विवा- हिता । अस्याः पुत्त्रो भरतः राजचक्रवर्त्ती । अस्या नामकारणं यथा, —
“निर्जने तु वने यस्मात् शकुन्तैः परिरक्षिता । शकुन्तलेति नामास्याः कृतञ्चापि ततो मया ॥” इति महाभारते । १ । ७२ । १५ ॥ अस्या विववणं कालिदासकृताभिज्ञानशकुन्तल- नाटके द्रष्टव्यम् । पाद्मे स्वर्गखण्डे प्रथमादि- पञ्चाध्यायेषु महाभारते आदिपर्व्वणि ६९ अध्यायमारभ्य च ज्ञातव्यम् ॥