वाचस्पत्यम्
शङ्खिनी || स्त्री शङ्खस्तदाकारं पुष्पमस्त्यस्याः इनि । १ चोर- पुष्प्याम्, अमरः । २ श्वेतपन्नागे ३ विश्वः । ४ श्वेतबुह्नायां ५ श्वेतचुक्रायां, ६ यवतिक्तायां, राजनि० । ७ स्त्री- भेदे, ८ उपदेवताभेदेः, (शाकचिन्नी) ९ शङ्खवत्यां स्त्रियाञ्च । स्त्रोभेदलक्षणं रतिमञ्जर्य्यामुक्तं यथा “दीर्घा सुदीर्घनयना वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता । रेखात्रयेण च विभूषितकण्ठदेशा सम्भो- गकेलिरसिका किल शङ्खिनी सा” । “शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हये” । “पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी । शङ्खिनी क्षारगन्धा स्यात् मदगन्धा च हस्तिनी” ।
शब्दकल्पद्रुमः
शङ्खिनी || स्त्री (शङ्खवत् पुष्पमस्त्यस्याः । शङ्ख + इनिः ।)
चोरपुष्पी । इत्यमरः ॥ श्वेतपुन्नागः । इति विश्वः ॥ श्वेतवृन्दा । इति मेदिनी ॥ श्वेत- चुक्रा । इति शब्दरत्नावली ॥ बुद्धशक्तिभेदः । इति त्रिकाण्डशेषः ॥ यवतिक्ता । इति राज- निर्घण्टः ॥ चतुर्व्विधस्त्रीमध्ये स्त्रीविशेषः । तल्ल- क्षणं यथा, —
“दीर्घा सुदीर्घनयना वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता । रेखात्रयेण च विभूषितकण्ठदेशा सम्भोगकेलिरसिका किल शङ्खिनी सा ॥ शशकं पद्मिनी तुष्टा चित्रिणी रमते मृगम् । वृषभं शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥ पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी । शङ्खिनी क्षारगंन्धा स्यात् मदगन्धा च हस्तिनी ॥” इति रसमञ्जरी ॥ शङ्खयुक्ता । यथा, —
“शङ्खिनी चापिनी वाणभुशुण्डीपरिघायुधा ॥” इति देवीमाहात्म्यम् ॥ उपदेवताविशेषः । शङ्खिनीवासशब्दार्थदर्श- नात् ॥