संस्कृत-शब्दकोशः

शबल शब्दकार

शब्द

वाचस्पत्यम्

शब्द ||‍ पु० शब्द—घञ् । १ ध्वन्यात्मके २ वर्णात्मके च श्रोत्रे- न्द्रियग्राह्ये आकाशस्थे गुणभेदे ।


वाचस्पत्यम्

शब्द ||‍ शब्दकरणे अ० चु० उभ० सक० सेट् । शब्दयति ते अशशब्दत् त ।


शब्दकल्पद्रुमः

शब्द || क शब्दकृतौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
क, शब्दयति । सोपसर्ग- स्त्वाविष्कृतौ मतः । प्रशब्दयति गभीरमत्यर्थं शिष्यः स्फुटीकरोतीत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शब्दः || पुं, (शब्द + भावे घञ् । यद्बा, शप आक्रोशे + “शाशपिभ्यां ददनौ ।” उणा ० ४ । ९७ । इति दन् । पकारस्य बकारः ।)
श्रोत्रग्राह्यगुणपदार्थ- विशेषः । तत्पर्य्यायः । निनादः २ निनदः ३ ध्वनिः ४ ध्वानः ५ रवः ६ स्वनः ७ स्वानः ८ निर्घोषः ९ निर्हादः १० नादः ११ निःस्वानः १२ निःस्वनः १३ आरवः १४ आरावः १५ संरावः १६ विरावः १७ । इत्यमरः ॥ संरवः १८ रावः १९ । इति शब्दचन्द्रिका ॥ घोषः २० । इति जटा- धरः ॥ स च ध्वन्यात्मको वर्णात्मकश्च । यथा, “कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः । सर्व्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता । कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥ उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता । सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते । तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ॥” इति भाषापरिच्छेदः ॥ शब्दं निरूपयति । “शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः । सर्व्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥” इति ॥ नभोवृत्तिराकाशसमवेतः । दूरस्थशब्दस्याग्र- हणादाह श्रोत्रोत्पन्न इति कण्ठसंयोगादिजन्या वर्णास्ते कादयो मता इति । ननु मृदङ्गाद्यव- च्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्पत्तिरत आह वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता इति । आद्यशब्दस्य बहिर्दशदिगवच्छिन्नोऽन्यः शब्द- स्तेनैव शब्देन जन्यते तेन चापरस्तद्व्यापक एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इति । कदम्ब- गोलकन्यायादुत्पत्तिः कस्यचिन्मते इति । आद्य शब्दात् दशदिक्षु दश शब्दा उत्पद्यन्ते । तत- श्चान्ये दश शब्दा उत्पद्यन्ते इति भावः । अस्मिन् कल्पे गौरवादुक्तं कस्यचिन्मते इति । ननु शब्दस्य नित्यत्वादुत्पत्तिः कथमत आह । उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता इति । शब्दानामुत्पादविनाशप्रत्ययशालित्वादनित्यत्व- मित्यर्थः । ननु स एवायं ककार इत्यादि प्रत्य- भिज्ञानाच्छब्दानां नित्यत्वम् । इत्थञ्चोत्पाद- विनाशबुद्धिभ्रमरूपा चेत्यत आह सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते । तदेवौषध- मित्यादौ सजातीयेपि दर्शनात् इति ॥ तत्र प्रत्यभिज्ञानस्य तत्सजातीयत्वं विषयः । ननु तद्ब्यक्त्यभेदो विषयः उक्तप्रतीतिविरोधात् । इत्थञ्च द्बयोरपि बुद्ध्योर्न भ्रमत्वमिति । ननु सजातीयत्वं सोऽयमिति प्रत्यभिज्ञायां भाषते इति कुत्र दृष्टमित्यत आह तदेवेति । यदौषधं मया कृतं तदेवान्येनापि कृतमित्यादि दर्शना- दिति भावः । इति सिद्धान्तमुक्तावली ॥ * ॥
दशविधशब्दा यथा, —
“षड्जर्षभसगान्धारमध्यमः पञ्चमस्तथा । अतः परन्तु विज्ञेयो निषादो धैवतस्तथा । इष्टश्चानिष्टशब्दश्च संहतः प्रविभागवान् ॥” इत्याश्वमेधिकपर्व्व ॥ शब्दविशेषाणां नामविशेषा यथा, —
“शब्दो गुणानुरागोत्थः प्रणादः शीत्कृतं नृणाम् । पर्द्दनं गुदजे शब्दे कर्द्दनं कुक्षिसम्भवे ॥ क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः । कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥ मर्मरो वस्त्रपर्णादेर्भूषणानान्तु शिञ्जितम् । हेषा ह्नेषा तुरङ्गाणां गजानां गर्ज्जवृंहिते ॥ विस्फारो धनुषां हम्भारम्भे गोर्जलदस्य च । स्तनितं गर्जितं गर्ज्जिः स्वनितं रसितादि च ॥ कूजितं स्याद्विहङ्गानां तिरश्चां रुतवाशिते । वृकस्य रेषणं रेवा वुक्कनं भषणं शुनः ॥ पीडितानान्तु कणितं मणितं रतकूजितम् । प्रक्काणः प्रक्कणस्तन्त्र्या मर्द्दलस्य तु गुन्दलः ॥ क्षीजनन्तु कीचकानां भेर्य्या नादस्तु टट्टुरः । तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ काकली तु कलः सूक्ष्म एकतालो लयानुगः । काकुर्ध्वनिविकारः स्यात् प्रतिश्रुत्तु प्रतिध्वनिः ॥” इति हेमचन्द्रः ॥ अथैकार्थानुलोमविलोमसमशन्दाः । नयन १ नर्त्तन २ कनक ३ कण्टक ४ महिम ५ कलङ्क ६ कालिका ७ सरस ८ सहास ९ मध्यम १० सदस्य ११ नवेन १२ तावता १३ तारता १४ विभवि १५ करक १६ कम्बुक १७ काञ्चिका १८ नन्दन १९ दन्तद २० दम्भद २१ योग्ययोः २२ लगुल २३ नुततनु २४ हाववहा २५ पतदातप २६ वरभैरव २७ कलपुलक २८ वरकैरव २९ वरपौरव ३० तरुणीरुत ३१ रदसोदर ३२ नदभेदन ३३ दम्पतीपदम् ३४ लङ्काकङ्काल ३५ माधववल्लव- वधमा ३६ नन्दनन्दन ३७ तद्धित ३८ समास ३९ कारिका ४० पादपाः ४१ जलज ४२ नाना ४३ मम ४४ ॥ * ॥
अथान्यार्थकानुलोमविलोम- शब्दाः । वन्दे १ देवे २ लेख ३ रवी ४ भानो ५ हंसा ६ जीवा ७ यामा ८ विभु ९ वद १० रम ११ यम १२ कम्प १३ राधा १४ राधया १५ सूत्रामा १६ नन्दक १७ मालिका १८ कालिनी १९ राजते २० भारती २१ हासिका २२ गगन २३ करका २४ भार्गव २५ कटकम् २६ दीनरक्षा २७ महोरगा २८ वातापिना २९ पिनाकिना ३० सदालिका ३१ यमराज ३२ हरिदैवे ३३ सव्यायामा ३४ भोविकर्त्तन ३५ नन्दनवन ३६ नलकूवर ३७ सहसानुत ३८ रसविभवेन ३९ साहमहमिक ४० नवतम- संमद ४१ मार ४२ वत ४३ युवा ४४ सदा ४५ वशि ४६ मया ४७ लता ४८ नुत ४९ लव ५० विभा ५१ ॥ * ॥
अथ संस्कृतप्राकृतसमपुंलिङ्ग- शब्दाः । आहार १ हार २ विहार ३ सार ४ समर ५ सम्भोग ६ रोग ७ असुर ८ संहार ९ अमर १० वार ११ वारण १२ गण १३ टङ्कार १४ भार १५ आकर १६ लोल १७ उल्लोल १८ विलास १९ वायस २० हर २१ अहङ्कार २२ हीर २३ अङ्कुर २४ नीहार २५ उरग २६ राग २७ भाल २८ तरल २९ गोविन्द ३० कन्द ३१ उदर ३२ तरुण ३३ तरणि ३४ दास ३५ मोह ३६ सन्दोह ३७ मास ३८ खुर ३९ खर ४० तर ४१ मल ४२ सङ्गर ४३ आरम्भ ४४ हास ४५ कर ४६ करि ४७ किरि ४८ कीर ४९ कोल ५० कन्दोल ५१ धीर ५२ मल ५३ मलय ५४ करीर ५५ वामदेव ५६ असि ५७ वीर ५८ नर ५९ नरक ६० करङ्क ६१ दण्ड ६२ चण्डाल ६३ रङ्ग ६४ दर ६५ सरल ६६ कलङ्क ६७ कम्बल ६८ आकार ६९ पङ्क ७० खल ७१ बहुल ७२ कुरङ्ग ७३ देह ७४ सन्देह ७५ सङ्ग ७६ पर ७७ कुरर ७८ तरङ्ग ७९ चारु ८० सञ्चार ८१ भङ्ग ८२ अरि ८३ हरि ८४ परिणाह ८५ कण्ठ ८६ कुण्ठ ८७ अहि ८८ दाह ८९ परि- सर ९० रवि ९१ हाहा ९२ मञ्जु ९३ मञ्जीर ९४ वाह ९५ अचल ९६ कुल ९७ कुमार ९८ कुम्भ ९९ कुम्भीर १०० सार १०१ विरल १०२ कवल १०३ जार १०४ कन्दर १०५ उदार १०६ पार १०७ जम्बीर १०८ केशरि १०९ वराह ११० मुरारि १११ काल ११२ काकोल ११३ कुन्तल ११४ चमूरु ११५ विराम ११६ बाल ११७ आलोल ११८ बाहु ११९ रण १२० सङ्गर १२१ चोल १२२ भार १२३ संसार १२४ केरल १२५ समीरण १२६ टङ्क १२७ ताल १२८ आसार १२९ चामर १३० कुलीर १३१ तुरङ्ग १३२ सूर १३३ कङ्काल १३४ कन्दल १३५ कराल १३६ विकास १३७ पूर १३८ हेरम्ब १३९ कम्बु १४० विधु १४१ सिन्धु १४२ बुध १४३ अनुबन्ध १४४ कुन्द १४५ इन्दु १४६ मन्दर १४७ समीर १४८ समह १४९ गन्ध १५० भीम १५१ अङ्क १५२ सङ्कर १५३ किरीट १५४ तमाल १५५ गुञ्जा १५६ हिन्ताल १५७ तोमर १५८ महीरुह १५९ विम्ब १६० पुञ्ज १६१ हिण्डीर १६२ पिण्ड १६३ वर १६४ संवर १६५ कोण १६६ काण १६७ संरम्भ १६८ सोम १६९ परिरम्भ १७० विकार १७१ वाण १७२ वसन्त १७३ आसब १७४ वेसन्त १७५ वास १७६ वासव १७७ वासर १७८ कासार १७९ सार १८० सरस १८१ किरण १८२ अरुण १८३ वारण १८४ ॥ * ॥
अथ संस्कृतप्राकृतसमस्त्रीलिङ्गशब्दाः । हेला १ खेला २ कला ३ माला ४ रसाला ५ काहला ६ अचला ७ कीला ८ लीला ९ वला १० वाला ११ लोला १२ दोला १३ अलसा १४ मसी १५ धरणी १६ धारणी १७ गोणी १८ रोहिणी १९ रमणी २० मणी २१ वीणा २२ वाणी २३ वसा २४ वेणी २५ रीढा २६ गङ्गा २७ तरङ्गिणी २८ कन्दली २९ लहरी ३० नारी ३१ रामा ३२ भेरी ३३ वसुन्धरा ३४ काली ३५ कराली ३६ चामुण्डा ३७ चण्डा ३८ रण्डा ३९ तुला ४० मही ४१ ॥ * ॥
अथ संस्कृतप्राकृतक्लीवलिङ्गसमशब्दाः । जल १ फल २ पल ३ मूल ४ वारि ५ कीलाल ६ कूल ७ वल ८ पलल ९ दुकूल १० लिङ्ग ११ गम्भीर १२ कूल १३ सलिल १४ कमल १५ चीर १६ तुच्छ १७ राजीव १८ नीर १९ हल २० रजत २१ कुटीर २२ दारु २३ लाल २४ पटीर २५ कारण २६ रोहण २७ चेल २८ कुहर २९ अम्बर ३० मन्दिर ३१ कुट्मल ३२ मण्डल ३३ तामरस ३४ कुण्डल ३५ अङ्गद ३६ पुर ३७ अरबिन्द ३८ लोह ३९ अङ्ग ४० तडाग ४१ करण ४२ कुल ४३ तोरण ४४ मरण ४५ तुङ्ग ४६ अलम् ४७ आगार ४८ भासुर ४९ ॥ * ॥
अथ संस्कृतप्राकृतसमक्रियापदानि । भण १ देहि २ गच्छ ३ संहर ४ कुरु ५ चोरय ६ मारय ७ अवगच्छ ८ अवलोकय ९ अवचिन्तय १० खाद ११ ॥ * ॥
अथ निरोष्ठ्यपुंलिङ्गशब्दाः । नीहार १ हार २ हरिण ३ अङ्क ४ हर ५ अट्टहास ६ कैलास ७ कास ८ रद ९ नारद १० सिंह ११ शङ्ख १२ शेष १३ अहि १४ हंस १५ घनसार १६ हलि १७ इन्द्र १८ नाग १९ हिण्डीर २० निर्झर २१ शरद्वन २२ चन्द्रकान्त २३ शृङ्गार २४ सागर २५ तडाग २६ जलाशय २७ अग २८ हर्य्यक्ष २९ तक्षक ३० नख ३१ क्षत ३२ दीक्षित ३३ अक्ष ३४ नाराच ३५ काच ३६ कच ३७ कीचक ३८ चञ्चरीक ३९ चाणक्य ४० चारण ४१ गण ४२ क्षण ४३ काण ४४ शोण ४५ संहार ४६ सारस ४७ रस ४८ अरि ४९ रसाल ५० साल ५१ कङ्काल ५२ काल ५३ कलि ५४ शैल ५५ खल ५६ अनल ५७ अर्क ५८ किञ्जल्क ५९ कल्क ५० कर ६१ शङ्कर ६२ कीर ६३ हीर ६४ लङ्केश ६५ केश ६६ गर ६७ केशव ६८ देश ६९ लेश ७० आनन्द ७१ नन्दन ७२ धनञ्जय ७३ खञ्जरीट ७४ कीट ७५ अग्नि ७६ कण्टक ७७ कटाह ७८ कटाक्ष ७९ यक्ष ८० दक्ष ८१ अङ्ग ८२ यज्ञ ८३ जनक ८४ अञ्जलि ८५ यन्त्र ८६ यत्न ८७ रत्नाकर ८८ अन्धक ८९ धराधर ९० धीर ९१ शीर ९२ नासीर ९३ नारायण ९४ कृष्ण ९५ हृषीकेश ९६ ॥ * ॥
अथ निरोष्ठ्यस्त्रीलिङ्गशब्दाः । गङ्गा १ गीता २ सती ३ सीता ४ सिद्धि ५ सन्ध्या ६ मदा ७ गया ८ आशीः ९ काशी १० निशा ११ नासा १२ कान्ति १३ शान्ति १४ दया १५ रसा १६ आर्द्रा १७ निद्रा १८ हरिद्रा १९ दृक् २० द्राक्षा २१ लाक्षा २२ धृति २३ कृति २४ छाया २५ जाया २६ कथा २७ कान्ता २८ धात्री २९ रात्रि ३० रति ३१ गति ३२ कन्धरा ३४ धारणा ३४ धारा ३५ तारा ३६ कारा ३७ जरा ३८ धरा ३९ आजि ४० राजि ४१ रजनी ४२ अर्त्ति ४३ कीर्त्ति ४४ कन्या ४५ तटी ४६ नटी ४७ नारी ४८ सारी ४९ दरी ५० दासी ५१ घटिका ५२ खटिका ५३ जटा ५४ कक्षा ५५ रक्षा ५६ शिखा ५७ संख्या ५८ कालिन्दी ५९ कलिका ६० कला ६१ काली ६२ कराली ६३ दुर्गा ६४ ॥ * अथ निरोष्ठ्यक्लीवलिङ्गशब्दाः । चरण १ करण २ चक्र ३ क्षत्त्र ४ नक्षत्र ५ तक्र ६ रजत ७ शत ८ शरीर ९ क्षीर १० नीर ११ अक्षि १२ तीर १३ धन १४ कनक १५ निधान १६ ध्यान १७ सन्धान १८ दान १९ नलिन २० नगर २१ गात्र २२ छत्र २३ नेत्र २४ अस्थि २५ दात्र २६ आलिङ्गन २७ स्थान २८ शिरः २९ चरित्र ३० जल ३१ स्थल ३२ स्थाल ३३ कलत्र ३४ चित्र ३५ कीलाल ३६ जाल ३७ अलक ३८ नाल ३९ दैन्य ४० लिङ्ग ४१ अङ्ग ४२ लावण्य ४३ हिरण्य ४४ सैन्य ४५ अञ्ज ४६ अजिन ४७ यान ४८ असृक् ४९ काञ्चन ५० आनन ५१ कानन ५२ हाटक ५३ नाटक ५४ नाट्य ५५ तैल ५६ चेल ५७ रसा- तल ५८ अदन ५९ सदन ६० ज्ञान ६१ निदान ६२ दधि ६३ चन्दन ६४ अक्षर ६५ लक्षण ६६ लक्ष ६७ शस्त्र ६८ शास्त्र ६९ दल ७१ हल ७१ ॥ * ॥
अथ निरोष्ठ्यक्रियापदानि । आशास्ते १ अस्ति २ चकास्ति ३ निन्दति ४ सृजति ५ आशंसति ६ क्रीडति ७ ध्यायति ८ अर्च्चति ९ याचते १० द्यति ११ वहति १२ आराधति १३ त्रस्यति १४ शेते १५ गच्छति १६ यच्छति १७ इच्छति १८ नयति १९ आयाति २० हन्ति २१ ईहते २२ अश्नाति २३ स्नाति २४ दधाति २५ याति २६ जयति २७ हसति २८ करोति २९ । इति कविकल्पलतायां १ स्तवके २ कुसुमम् ॥



Correction: