वाचस्पत्यम्
शय || पु० शी—अच् । १ हस्ते अमरः । २ सर्पे ३ शय्यायां मेदि० ४ निद्रायां ५ पणे च विश्वः ।
शब्दकल्पद्रुमः
शयः || पुं, (शेते सर्व्वमस्मिन्निति प्रायो वस्तुनः करा- धीनत्वात् । शी + पुंसीति घः ।)
हस्तः । इत्य- मरः ॥ शय्या । सर्पः । इति मेदिनी ॥ निद्रा । पणः । इति विश्वः ॥