वाचस्पत्यम्
शय्या || स्त्री शी—आधारे क्यष् । १ खट्वायाम् अमरः । भावे क्यप् । २ शयने ३ गुम्फने मेदि० । “त्रिदोषशमनी खद्वा तूलौ वातकफापहा । भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला” । “भूशय्या वातलातीव रूक्षा पित्तास्वनाशिनी । सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम् । श्रमानिलहरं वृष्यं विपरीत मतोऽन्यथा” भावप्र० । तद्वमनविधानं यथा “कृतपादावशौचश्च भुक्त्वा सायं ततो गृही । गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप! । नावि- शालां न वै भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधिगच्छेदनास्तृताम्” । विष्णुपु० ३ अशे ११ अ० ।
शब्दकल्पद्रुमः
शय्या || स्त्री (शी शयने + “संज्ञायां समजेति ।” ३ । ३ । ९९ । इति क्यप् ।)
गुम्फनम् । इति मेदिनी ॥ शीयते यत्र सा । तत्पर्य्यायः । शय- नीयम् २ शयनम् ३ । इत्यमरः ॥ तल्पम् ४ । इति जटाधरः ॥ शयनीयकम् ५ । इति शब्द- रत्नावली ॥ तस्या गुणाः । “सुखशय्यासनं सेव्यं निद्रापुष्टिधृतिप्रदम् । श्रमानिलहरं शस्तं विपरीतमतोऽन्यथा ॥ भूशय्यानिलपित्तघ्नी वृंहणी शुक्रवर्द्धिनी । खट्वा तु वांतला प्रोक्ता पट्टो रूक्षोऽतिवा- तलः ॥” इति राजवल्लभः ॥ * ॥
अपि च । “त्रिदोषशमनी खट्वा तूली वातकफापहा । भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला ॥” अन्यत् पुनराह । “भूशय्या वातलातीव रूक्षा पित्तास्रनाशिनी । सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम् । श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा ॥” इति भावप्रकाशः ॥ * ॥
तद्गमनविधानं यथा, —
“कृतपादावशौचश्च भुक्त्वा सायं ततो गृही । गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप ॥ नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधिगच्छेदनास्तृताम् ॥” इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ * ॥
तद्दानफलं यथा । याज्ञवल्क्यः । “गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥” प्रियं यद्यस्य हर्म्म्यादि । प्रतिग्रहसमर्थेन शय्या न प्रत्याख्येया । यथा याज्ञवल्क्यः । “कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । मांसशय्यासनं धानाः प्रत्याख्येयं न वारि च ॥” मृतोद्देश्यकदत्तशय्याग्रहणे दोषो यथा । ब्रह्म- पुराणम् । “शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य च । नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा ॥” * ॥
सा च औत्तानाङ्गिरोदेवताका । यथा, —
“छत्रं कृष्णाजिनं शय्यां रथमासनमेव च । उपानहौ तथा यानं तथा यत् प्राणवर्ज्जितम् । औत्तानाङ्गिरसन्त्वेतत् प्रतिगृह्णीत मानवः ॥” इति शुद्धितत्त्वम् ॥ * ॥
पुष्पाभिषेके शय्यापट्टकं यथा, —
“सर्व्वरत्नमलङ्कारं पट्टं कार्य्यं द्बिहस्तकम् । हस्तविस्तार उच्छ्राये दशाङ्गुल्यः सुशोभनम् ॥ स्नानाख्यं सार्द्धहस्तन्तु पट्टं वृत्तासनान्वितम् । शय्याख्यं द्विगुणा दैर्घ्याद्धनुर्मानं सपीठकम् ॥” इति देवीपुराणे त्रैलोक्याभ्युदयपादे पुष्पाभि- षेकनामाध्यायः ॥