वाचस्पत्यम्
शर || न० शॄ—अच् । १ जले २ वाणे ३ दधिदुग्धाग्रसारे पु० मेदि० ४ इषुसाधने तृणभेदे पु० । “भद्रमुञ्जः शरो वाणस्तेजनश्चक्षुवेष्टनः । मुञ्जो मुञ्जातको वाणः स्थूल- दर्भः सुमेधसः । नुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रय- हरं वृष्यं मेखलासूपयुज्यते” भावप्र० । भावे अप् । ५ हिंसायाम् ।
शब्दकल्पद्रुमः
शरं || क्ली (शॄ + अप् ।)
जलम् । इति मेदिनी ॥
शब्दकल्पद्रुमः
शरः || पुं, (शॄणात्यनेनेति । शॄ गि हिंसे + “ऋदो रप् ।” ३ । ३ । ५७ । इति अप् ।)
बाणः । इत्यमरः ॥ (यथा, रघुः । १ । ६१ । “तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥”)
दध्यग्रभागः । इति मेदिनी ॥ दुग्धशरस्य नामान्तरम् । सन्तालिकः । दधिशरस्य नामा- न्तरम् । दधिसारः । दधिस्नेहः । कट्टरञ्च । इति रत्नमालादयः ॥ तृणविशेषः । काँडा इति हिन्दी भाषा । (यथा, महाभारते । १ । १३८ । १५ । “आचार्य्यः कलसाज्जातो द्रोणः शस्त्रभृतां- वरः । गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥”)
तत्पर्य्यायः । इषुः २ काण्डः ३ बाणः ४ मुञ्जः ५ तेजनः ६ गुन्द्रकः ७ । इति रत्नमाला ॥ उत्- कटः ८ शायकः ९ क्षुरः १० इक्षुप्रः ११ क्षुरिकापत्रः १२ विशिखः १३ । अस्य गुणाः । मधुरत्वम् । सतिक्तत्वम् । कोष्णत्वम् । कफ- श्रान्तिमदापहत्वम् । बलवीर्य्यकारित्वम् । नित्यं निषेवितञ्चेत् किञ्चिद्वातकारित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “भद्रमुञ्जः शरो बाणस्तेजनश्चक्षुवेष्टनः । मुञ्जो मुञ्जातको वाणः स्थूलदर्भः सुमेधसः ॥ मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ उशीरः । महापिण्डीतरुः । इति च राज- निर्घण्टः ॥ हिंसा । इति शॄधात्वर्थदर्शनात् ॥ (ज्योतिषोक्तपञ्चमाङ्कः । यथा, साहित्यदर्पणे । ४ । २६४ । “वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥”)