वाचस्पत्यम्
शरण || न० शॄ—ल्युट् । १ गृहे २ रक्षके अमरः । ३ रक्षणे ४ बधे मेदि० । ५ घातके शब्दच० । ६ प्रसारण्यां स्त्री शब्दर० टाप् ।
शब्दकल्पद्रुमः
शरणं || क्ली (शृणाति दुःखमनेनेति । शॄ + ल्युट् ।)
गृहम् । (यथा, महाभारते । १ । १०६ । ४ । “ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥”)
रक्षिता । इत्यमरः ॥ (यथा, वैवाग्यशतके । ९१ । “त्यज संसारमसारं भज शरणं पार्व्वतीरमणम् । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेश- कम् ॥”)
रक्षणम् । वधः । इति मेदिनी ॥ घातकः । इति शब्दरत्नावली ॥