संस्कृत-शब्दकोशः

शर्करावत् शर्करिक

शर्करासप्तमी

वाचस्पत्यम्

शर्करासप्तमी ||‍ स्त्री वैशाखशुक्लपक्षसप्तम्याम् । तद्विधानं मत्स्यपु० ७२ अ० उक्तं यथा “शर्करासप्तमीं वक्ष्ये तद्वत् कल्मषनाशिनोम् । आयुरारोग्यमैश्वर्त्यं यथानन्तं प्रजा- यते । माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः । प्रातः- स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनैः । स्यण्डिले पद्मभालिख्य कुङ्कुमेन सकर्णिकम् । तस्मै नमः सवित्रे तु गन्धपुष्पं निवेदयेत्” इत्यादि ।


शब्दकल्पद्रुमः

शर्करासप्तमी || स्त्री (शर्क्कराया दानविधायिका सप्तमी ।)
वैशाखीशुक्ला सप्तमी । तत्र व्रतविधि- र्यथा, — ईश्वर उवाच । “शर्करासप्तमीं वक्ष्ये तद्वत् कल्मषनाशिनीम् । आयुरारोग्यमैश्वर्य्यं ययानन्तं प्रजायते ॥ माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः ॥ प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानु- लेपनैः ॥ स्थण्डिले पद्ममालिख्यं कुङ्कुमेन सकर्णिकम् । तस्मै नमः सवित्रे तु गन्धपुष्पं निवेदयेत् ॥ स्थापयेदुदकुम्भञ्च शर्करापात्रसंयुतम् । शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः । सुवर्णाश्वसमायुक्तं मन्त्रेणानेन पूजयेत् ॥ विश्ववेदमयो यस्मात् वेदवादीति पठ्यते । त्वमेवामृतसर्व्वस्वमतः कान्तिं प्रयच्छ मे ॥ पञ्चगव्यं ततः पीत्वा स्वपेत्तत् पार्श्वतः क्षितौ । सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥ अहोरात्रे गते पश्चात् अष्टम्यां कृतनैत्यिकः । तत् सर्व्वं वेदविदुषे ब्राह्मणाय निवेदयेत् ॥ भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः । भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः ॥ अनेन विधिना सर्व्वं मासि मासि समाचरेत् ॥ संवत्सरान्ते शयनं शर्कराकलसान्वितम् । सर्व्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ॥ गृहञ्च शक्तितो दद्यात् समस्तोपस्करान्वितम् । सहस्रेणाथ निष्काणां कृत्वा दद्यात् शतेन वा ॥ दशभिर्व्वाथ निष्काणां तदर्द्धेनाथ शक्तितः । सुवर्णाश्वः प्रदातव्यः पूर्ब्बवन्मन्त्रवाचनम् ॥ वित्तशाठ्यं न कुर्वीत कुर्व्वन् दोषं समश्नुते । अमृतं पिबतो वक्त्रात् सूर्य्यस्यामृतबिन्दवः ॥ निपेतुर्ये तदुत्थामी शालिमुद्गेक्षवः स्मृताः । शर्करापरमस्तस्मादिक्षुसारोऽमृतात्मकः ॥ इष्टा रवेरतः पुण्या शर्कराहव्यकव्ययोः । शर्करासप्तमी चैषा वाजपेयफलप्रदा ॥ सर्व्वदुःखोपशमनीं पुत्त्रसन्ततिवर्द्धनीम् । यः कुर्य्यात् परया भक्त्या स परं ब्रह्म गच्छति । कल्पमेकं वसेत् स्वर्गे ततो याति महत् पदम् ॥ इदमनघं शृणोतियः स्मरेद्बा परिपठतीह दिवाकरस्य लोके । मतिमपि च ददाति सोऽपि दैवैरमरबधूजनमालया च पूज्यः ॥” इति मात्स्ये ७२ अध्यायः ॥



Correction: