संस्कृत-शब्दकोशः

शल्मली शल्यक

शल्य

वाचस्पत्यम्

शल्य ||‍ न० शल—यत् । १ वाणे २ तोमरे ३ क्ष्वेडे मेदि० ४ वंश- कविकायां विश्वः । ५ दुःसहे ६ दुर्वाक्ये शब्दर० ७ पापे त्रिका० “शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोष्ट्र- बालनखपूयास्रावान्तर्गर्भशल्योद्धारणार्थं यन्त्रशस्त्राक्षा- राग्निप्रणिधानं व्रणविनिश्चयार्थञ्च” सुश्रुतोक्ते ८ चिकि- त्साङ्गे यन्त्रभेदे ९ अस्थ्नि ज्यो० त० । वास्तुभूमिस्थ शल्य- ज्ञानं प्रश्नाक्षरेण यथा भवति तथोक्तं ज्यो० व० “सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधि यत्नत- स्ताम् । कुर्य्याद्विशल्यामथ वा नृमानं खात्वाथ वा प्रश्न- वशाद्विधिज्ञः । दूर्वाप्रवालाक्षतपुष्पपाणिः शुचिः शुचिं दैवविदं समेत्य । पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वं भवने तदीशः । ततः प्रश्नादिमो वर्णः सन्धार्य्यो यत्नतो- ऽथ वा । क्रमात् पुष्पापगादेवफलामां ब्राह्मणादिवः । प्रणवो धरणी धारिणी करौ तदनन्तरम् । न भूत्यै नम इत्येष मन्त्रो वह्निप्रियात्मकः” वह्निप्रिया स्वाहा “मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत् । नवधा सदनक्षेत्रं तया पश्चाद्विलेखयेत् । वकचत एहाः शपया नव चेत् प्रश्नाक्षराणि जायन्ते । प्रागादिकोष्ठनवके वर्णास्ते शल्यमाख्यान्ति । प्रश्ने वकारः पुरतो नरास्थि ब्रवीति शल्यं मरकप्रदायि । क्षौणीशदण्डोरगहेतुमृत्यु- प्रदं ककारः खरशल्यमग्नौ । याम्यं चकारः प्लवगास्थि- वेश्म प्रभोर्विनाशं प्रकरोति शल्यम् । रक्षोदिशि श्वास्थि गृहस्थितानां महद्भयं बक्ति सुनिश्चितं तः । एः पाशिदि- श्यस्थि शिशोर्ब्रवीति मृत्युं प्रवासाद् मृहमेव शल्यम् । होवायुकोणे नररूपमस्थि दारिद्र्यमित्रक्षयकृद्विधत्ते । धनपदिशि शकारः प्राह विप्रास्थि वित्तक्षयकृदथ पकारो वक्ति ऋक्षास्थि शम्भौ । तदिह कुलविगाशं गोधनानाञ्च हानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः । यो मध्य- भागे भसितं कपालं कालायसं चाह कुलक्षयाय । यत्नादपास्यान्यधुना प्रमाणं सर्वत्र तथ्यं कथयामि शल्ये । चन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ । वह्न्यन्तक- कुबेरेषु पुरुषे मध्यवातयोः” । देवीपु० “पुरुषाधःस्थितं शल्य न गृहे दोषदं भवेत् । प्रासादे दोषदं शल्यं भवेत् यावज्जलान्तकम् । गृहांरम्भेऽतिकण्डूतिः स्याम्यङ्गे यदि जायते । शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि बा” । १० मदनवृक्षे ११ श्वाविधि च पु० अमरः १२ नकुलमातुल मद्राधिपे नृपभेदे पु०१३ सीम्नि १४ शलाकायां पु० हेमच० १५ बिल्ववृक्षे पु० १६ मत्स्यभेदे राजनि० । १७ शस्त्रभेदे पु० त्रिका० ।


शब्दकल्पद्रुमः

शल्यं || क्ली (शलति चलतीति । शल + “सानसि- वर्णसिपर्णसीति ।” उणा० ४ । १०७ । इति यः ।)
क्ष्वेडः । इषुः । (यथा, रघुः । ९ । ७५ । “शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्त्रं तापादन्तःशल्य इवासीत् क्षितिपोऽपि ॥”)
तोमरम् । इति मेदिनी ॥ वंशकन्विका । इति विश्वः ॥ दुःसहम् । दुर्व्वाक्यम् । इति शब्द- रत्नावली ॥ पापम् । इति त्रिकाण्डशेषः ॥ अस्थि । यथा । अथ शल्योद्धारविधिः । “सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधि यत्नतस्ताम् । कुर्य्याद्बिशल्यामथवा नृमानं ज्ञात्वाथवा प्रश्नवशाद्विधिज्ञः ॥ दूर्व्वाप्रबालाक्षतपुष्पपाणिः शुचिः शुचिं दैवविदं समेत्य । पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वं भवने तदीशः ॥ ततः प्रश्नादिमो वर्णः सन्धार्य्यो यत्नतोऽथवा । क्रमात् पुष्पापगादेव फलानां ब्राह्मणादितः ॥ प्रणवो धरणी धारिणी करौ च तदनन्तरम् । न भूत्यै नम इत्येष मन्त्रो वह्निप्रियान्तकः ॥” वह्निप्रिया स्वाहा । “मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत् । नवधा सदनक्षेत्रं तया पश्चाद्विलेखयेत् ॥ व-क-च-त-ए-हाः श-प-षा नव चेत् प्रश्ना क्षराणि जायन्ते । प्रागादिकोष्ठे नवके वर्णास्ते शल्यमाख्यान्ति ॥ प्रश्ने वकारः पुरतो नरास्थि ब्रवीति शल्यं मरकप्रदायि । क्षौणीशदण्डोरगहेतुमृत्यु- प्रदं ककारः खरशल्यमग्नौ ॥ याम्यां चकारः प्लवगास्थि वेश्म प्रभोर्विनाशं प्रकरोति शल्यम् । रक्षोदिशि श्वास्थिगृहस्थितानां महद्भयं वक्ति सुनिश्चितं तः ॥ एः पाशिदिश्यस्थि शिशोर्ब्रवीति मृत्युं प्रवासाद्गृहमेव शल्यम् । हो वायुकोणे नररूपमस्थि दारिद्र्यमित्रक्षयकृद्बिधत्ते ॥” धनपदिशि शकारः प्राह विप्रास्थि वित्त- क्षयकृदथ पकारो वक्ति ऋक्षास्थि शम्भौ । तदिह कुलविनाशं गोधनानाञ्च हानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः ॥ यो मध्यभागे भसितं कपालं कालायसं चाह कुलक्षयाय । यत्नादपास्यान्यधना प्रमाणं सर्व्वत्र तथ्यं कथयामि शल्ये ॥ इन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ । वह्न्यन्तककुबेरेषु पुरुषे मध्यवातयोः ॥” देवीपुराणम् । “पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् । प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तकम् ॥ गृहारम्भेऽतिकण्डूतिः स्वाम्यङ्गे यदि जायते । शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
सप्त शल्यानि यथा, —
“नृपो न हरिसेवको व्ययधनो न कृष्णार्पकः कविर्न मुरजित् कविः श्रुतगुरुर्न सद्वैष्णवः । गुणी न भगवत्परो रसिकधीर्न कृष्णाश्रयः स न व्रजजनानुगो जगति सप्त शल्यानि च ॥” इति पाद्मोत्तरखण्डे १०० अध्यायः ॥


शब्दकल्पद्रुमः

शल्यः || पुं, (शल गतौ + यः ।)
मदनवृक्षः । श्वावित् । इत्यमरः ॥ (यथा, भागवते । ८ । २ । २२ । “वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च ॥”)
नृपभेदः । स तु युधिष्ठिरमातुलः । (अयं हि दुर्य्योधनेन कापट्यात् वशीकृतः कुरुपाण्डवयुद्धे दुर्य्योधनपक्षं समाश्रयत् । यथा, महाभारते । १ । २ । २१६ । “मद्रराजञ्च राजानमायान्तं पाण्डवान् प्रति । उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः ॥ वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्यं पाण्डवान् ॥” कर्णार्ज्जुनयोर्द्बैरथयुद्धे शल्यस्य कर्णतेजो भङ्ग- करणे प्रतिज्ञा । यथा, तत्रैव । ५ । ८ । ३७-४५ । युधिष्ठिर उवाच । “सुकृतं ते कृतं राजन् ! प्रहृष्टेनान्तरात्मना । दुर्य्योधनस्य यद्बीर त्वया वाचा प्रतिश्रुतम् ॥ एकं त्विच्छामि भद्रन्ते क्रियमाणं महीपते । राजन्नकर्त्तव्यमपि कर्त्तुमर्हसि मातुल ॥ मम त्ववेक्षया वीर शृणु विज्ञापयामि ते । भवानिह महाराज वासुदेवसमो युधि ॥ कर्णार्ज्जुनाभ्यां संप्राप्ते द्बैरथे राजसत्तम । कर्णस्य भवता कार्य्यं सारथ्यं नात्र संशयः ॥ तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि । तेजोवधश्च ते कार्य्यः सौतेरस्मज्जयावहः । अकर्त्तव्यमपि ह्येतत् कर्त्तुमर्हसि मातुल ॥ शल्य उवाच । शृणु पाण्डव भद्रं ते यद्ब्रवीति दुरात्मनः । तेजोवधनिमित्तं मां सूतपुत्त्रस्य रुंयुगे ॥ अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् । वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥ तस्याहं कुरुशार्दूल प्रतीपमहितं वचः । ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥ यथा च हृतदर्पश्च हृततेजाश्च पाण्डव । भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥” युधिष्ठिरस्तु एनं हतवान् । एतद्वृत्तान्तस्तु महाभारते शल्यपर्व्वणि १७ अध्याये द्रष्टव्यः ॥)
सीमा । शलाका । इति हेमचन्द्रः ॥ विल्व- वृक्षः । मत्स्यभेदः । इति राजनिर्घण्टः ॥ * ॥
शल्यनिःसरणौषधं यथा, —
“रुद्र लाङ्गलिकामूलं हिज्जलस्य तथैव च । तेन व्रणमुखं लिप्तं शल्यो निःसरति व्रणात् । चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥” इति गारुडे १९३ अध्यायः ॥


शब्दकल्पद्रुमः

शल्यः || पुं, क्ली, शस्त्रविशेषः । शेल इति भाषा । तत्पर्य्यायः । शङ्कुः २ । इत्यमरः ॥ दीर्घायुधः ३ शलः ४ कुन्तः ५ विषाङ्कुरः ६ । इति त्रिकाण्डशेषः ॥



Correction: