संस्कृत-शब्दकोशः

शशादन शशिकान्त

शशिकला

वाचस्पत्यम्

शशिकला ||‍ स्त्री ६ त० । १ चन्द्रस्य षोडशभागे “गुरुनिघनमनु- लघुरिह शशिकला” छन्दोभ० उक्तलक्षणे २ पञ्चदशाक्ष- रपादके छन्दोभेदे ।


शब्दकल्पद्रुमः

शशिकला || स्त्री पञ्चदशाक्षरपादच्छन्दोविशेषः । यथा, —
“गुरुनिधनमनु लघुरिह शशिकला । मलयजतिलकसमुदितशशिकला व्रजयुवतिलसदलिकगगनगता । सरसिजनयनहृदयसलिलनिधिं व्यतनुत विततरभसपरितरलम् ॥” इति छन्दोमञ्जरी ॥ (शशिनः कला । चन्द्रकला । यथा, —
“कमलिनी मलिनी दिवसात्यये शशिकला विकला क्षणदाक्षये । इति विधिर्व्विदधे प्रमदामुखम् भवति विज्ञतमः क्रमशो जनः ॥” इत्युद्भटः ॥)



Correction: