वाचस्पत्यम्
शशिकान्त || न० शशी कान्तो यस्य । १ कुमुदे २ चन्द्रकान्तमणौ पु० राजनि० ।
शब्दकल्पद्रुमः
शशिकान्तं || क्ली (शशी कान्तो यस्य ।)
कुमुदम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
शशिकान्तः || पुं, (शशी कान्तो यस्य ।)
चन्द्रकान्त- मणिः । इति राजनिर्घण्टः ॥ यथा, बृहत्- सहितायाम् । ८० । ४ । “वैदूर्य्यविपुलकविमलक- राजमणिस्फटिकशशिकान्ताः ॥”)