वाचस्पत्यम्
शस्य || न० शस—यत् । वृक्षादीनां फले “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते” इत्युक्ते क्षेत्रस्थे धान्यादौ च अस्य दन्त्यादित्वमपि नवशस्यसम्भोगनक्षत्राणि ज्यो० त० उक्तानि यथा “अनुराधा मृगशिरो रेवती चोत्तरा त्रयम । हस्ता चित्रा यघा पुष्या श्रवणा च पुनर्वसुः । रोहिणी नवशस्यादिनवद्रव्याशनादिषु । प्रशस्तं नव- पीठादिसम्भोगे ग्रहविद्वदेत्” ।
शब्दकल्पद्रुमः
शस्यं || क्ली (शस + “तकिशसिचतियतीति ।” ३ । १ । ९७ । इत्यस्य वार्त्तिकोक्त्या यत् ।)
वृक्षादि- निष्पन्नम् । तत्पर्य्यायः । फलम् २ । इत्यमरः ॥ वृक्षाणां लतादीनाञ्च फलं निष्पन्नत्वमागतं आम्रादिकं शस्यं सस्यपदवाच्यं इत्यन्वयः । फलति निष्पद्यते फलं फलनिष्पत्तौ पचादित्वा- दन् । सस्ति स्वपिति सस्यं सस लु र स्वप्ने कृद्धो- रिति यः सस्यं द्बिदन्त्यम् । ग्राम्यकविकथानुबन्ध इव नीरसस्यमनोहरो देश इति नलदमयन्ती- श्लेषात् । “श्रंसनं सीसकं सस्यं ग्रस्तं सास्ना च साध्व- सम् ॥” इत्युष्मविवेकाच्च ॥ तालव्यादिदन्त्यान्तश्च तथा हि शन्सु हिंसास्तुत्योरित्यस्मात् कृ वृष मृजेति क्यपि यत् शस्यं तत् क्रियावाच्येऽपि फलेऽपि दृश्यते । तालव्या अपि दन्त्याश्च शस्यशूकर- पांशव इत्युष्मभेदः । इति तट्टीकायां भरतः ॥ * ॥
क्षेत्रस्थधान्यादि । यथा, —
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतम् ॥” इति स्मृतिः ॥ ग्राम्यशस्यानि यथा, —
“व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः । प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः ॥” उदाराः दीर्घशालयः । “माषा मुद्गा मसूराश्च निष्पावाः सकुलत्यकाः । आढक्यश्चणकाश्चैव शाणाः सप्तदश स्मृताः ॥ इत्येता ओषधीनान्तु ग्राम्याणां जातयो मुने ॥” ग्राम्यारण्यशस्यानि यथा, —
“ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्द्दश । व्रीहयश्च यवा माषा गोधूमाश्चाणवस्तिलाः ॥ प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः । श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ॥ तथा वेणुयवाः प्रोक्तास्तथा मर्कटका मुने । ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्द्दश ॥” इति विष्णुपुराणे १ अंशे ६ अध्यायः ॥ * ॥
नवशस्यसम्भोगनक्षत्राणि यथा, —
“अनुराधा मृगशिरो रेवती चोत्तरात्रयम् । हस्ता चित्रा मघा पुष्या श्रवणा च पुनर्व्वसुः ॥ रोहिणी नवशस्यादिनवद्रव्याशनादिषु । प्रशस्तं नवपीठादिसम्भोगं ग्रहविद्बदेत् ॥” * ॥
नवशस्यश्राद्धादिकालो यथा, —
“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥” इत्यनेन शरद्बसन्तविहितनवशस्येष्टेः । “श्यामाकैर्व्रीहिभिश्चैव यवैरन्योन्यकालतः । प्राग्यज्ञं युज्यतेऽवश्यं न त्वत्राग्रयणात्ययः ॥” इति कालान्तरदर्शनात् श्राद्धेऽपि तथा । आग्रयणं नवशस्येष्टिः । “वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः । अपरे क्रियमाणं हि धनुष्येव कृतं भवेत् ॥ धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु । पितरस्तन्न गृह्णन्ति नवान्नामिषकाङ्क्षिणः ॥” अपरे कृष्णपक्षे । “पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः । भवेत् जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥ यद्यपि व्रीहिपाके च यवपाके च पार्थिव । न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥” इति विष्णुधर्म्मोत्तरवचने श्राद्धं प्रति व्रीहियव- पाकयोर्निमित्तत्वं प्रतीयते । तथापि नवोदके नवान्ने च इति शातातपवचने पूर्व्वोक्तबहुषु वचनेषु च नवान्नस्य श्रुतेर्नवान्नत्वेनैवोभयसाधा- रणं निमित्तं लाघवात् । अभिलापवाक्ये नवा- न्नागमनिमित्तमिति नियोज्यम् । न तु यवान्ना- गमादि । वृश्चिके शुक्लपक्षे च इति तु धनुरादि- पर्य्युदस्तेतरगौणकालमध्ये वृश्चिकस्य प्राशस्त्य- मात्रार्थं न तु श्राद्धान्तरार्थमिति । इति मल- मासतत्त्वम् ॥ अन्यत् नवान्नशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
शंस्य || त्रि० शन्स—ण्यत् । १ हिंस्ये २ स्तुत्ये ३ वाच्ये च ।
शब्दकल्पद्रुमः
शंस्यः || त्रि (शंस + ण्यत् । “ईडवन्दवृशंसदुहां ण्यतः ।” ६ । १ । २१४ । इत्याद्युदात्तः ।)
हिंस्यः । स्तुत्यः । शन्सधातोः घ्यण्प्रत्ययेन निष्पन्नमेतत् ॥