संस्कृत-शब्दकोशः

शस्यारु शाकचुक्रिका

शाक

वाचस्पत्यम्

शाक ||‍ पु० न० शक—घञ् । १ पत्रपुष्पादौ अमरः २ वृक्षनेदे पु० (सेगुण) वृक्षे च ३ शक्तौ ४ शिरीषवृक्षे पु० शब्दरत्ना० । ५ स्वराज्यावधि वत्सरप्रवर्त्तके राजभेदे ६ तदीये वत्सरे च पु० मेदि० । श्यति सामर्थ्यं शो—क तस्य नेत्त्वम् । “मूलपत्त्रे करीराग्रे फलकाण्डाधिरूढकम् । त्वक्पुष्पं कवकञ्चैव शाकं दशविधं स्मृतम्” इत्युक्तेषु ७ वृक्षा- दीनां पत्त्रादिषु न० । तत्र १ मूलं भूलकादेः । २ पत्रं वास्तूकादेः । ३ करीरं वंशादेः । ४ अग्रं वेत्रादेः । ५ फलं कुष्माण्डादेः । ६ काण्डं उत्पलादेः । ७ अधिरूढं ताला- स्थिमज्जादेः । ८ त्वक् मातुलाङ्गादेः । ९ पुष्पं कोविदा- रादेः । १० कवकं छत्रिकादेः । भावप्र० अन्यथोक्तं यथा “पत्रं पुष्प फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्- विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्” । “प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि च । शाकं भिन्नत्ति वपुरस्थि नहन्ति नेत्रम् वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयं च कुरुते पलितञ्च नूनम् हन्ति स्मृतिं गति मिति प्रवदन्ति तज्ज्ञाः” । ८ द्वीपभेदे मत्स्यपु० १२१ अ० तत्प्रमाणाद्युक्तं यथा “शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम् । कथ्यमानं नियोधध्वं शाकं द्वीपं द्विजोत्तमाः! । जम्बूद्वीपस्य वि- स्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात् द्विगुणश्चापि परीणाहः समन्ततः । तेनावृतः समुद्रोऽयं द्वितीयो णवणोदकः । तत्र पुण्या जनपदा चिराच्च म्रियते जनः । कुत एव च दुर्भिक्षं क्षपातेजोयुतेष्विह । तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः । शाकद्वीपा- दिषु स्येषु सप्त सप्त नगास्त्रिषु । ऋज्वायताः प्रति- दिशं निविष्टाः पर्वतोत्तमाः । रत्नाकराद्रिनामानः सालुमन्तो महाचिताः । समोदिताः प्रतिदिशं द्वीपवि- स्तारमानतः । उभवत्रावगाढौ च लवणक्षीरसागरौ । शाकद्वीप्रे तु वक्ष्यामि सप्त दिव्यान् महाचलान् । देवर्षि- गन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्ण चदयो नाम पर्वतः । तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यप- यान्ति च । तस्यापरेण सुमहान् जलधारो महा- गिरिः । स वै चन्द्रः समाख्यातः सर्वौवधिसमन्वितः । तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम् । नारदो नाम चैवोक्तो दुर्गशैलो महाचितः । तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ । तस्यापरेण सुमहान् श्यामो नाम महा- गिरिः । यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल । स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः । शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः । रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो- गिरिः स्मृतः । स वै सोमक इत्युक्तो देवैर्वत्रामृतं पुरा । अमृतञ्चाहृतञ्चेव मातुरर्थे गरुत्मता । तस्या- परे चाम्बिकेयः सुमनाश्चैव स स्मृतः । हिरण्याक्षो वराहेण तस्मिन् शैले निषूदितः । आम्बिकेयात् परो रम्यः सर्वाषधिनिवेशितः । विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान् निरिः । यस्माद्विभ्राजते वह्निर्वि- भ्राजस्तेन स स्मृतः । सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च । तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजो- त्तमाः । शृणुध्वं नामतस्तानि यथावदनुपूर्वशः । द्वि- नामान्येव वर्षाणि यथैव गिरयस्तथा । उदयस्योदयं वर्षं जलधारेति विश्रुतम् । नाम्ना गतभयं नाम वर्षं तत् प्रथमं स्मृतम् । द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् । तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम् । नारदस्य च कौमारन्तदेव च सुखोदयम् । श्यामपर्वत- वर्षं तदनीचकमिति स्मृतम् । आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् । सोमकस्य शुभं वर्षं विज्ञयं कुसुमोत्करम् । तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम् । आम्बिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम् । तदेव ध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम् । द्वीपस्य परि- णाहञ्च ह्रस्वदीर्घत्वमेव च । जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिम् । शाको नाम महावृक्षः प्रजास्तस्य सहानुगाः । एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह । तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । तेषु नद्यश्च सप्तैव प्रति- वर्षं समुद्रगाः । द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधा स्मृता । प्रथमा सुकुमारीति गङ्गा शिवजला शुभा । मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता । सुकुमारी तपःसिद्धा द्वितीया नामतः सती । नन्दा च पावनी चैव तृतीया परिकीर्त्तिता । शिविका च चतुथी स्यात् द्विविधा च पुनः स्मृता । इक्षुश्च पञ्चमी श्वेथा तथैव च पुनः कुहूः । वेणुका चामृता चैव षष्ठो सम्प- रिकीर्त्तिता । सुकृता च गभस्ती च सप्तमी परिकी- र्त्तिता । एताः सप्त महाभागाः! प्रतिवर्षं शिवोदकाः । भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् । अभिगच्छन्ति ताश्चान्या नदनद्यः सरांसि च । बहूदकपरिस्रावा यतो वर्षति वासवः । तासान्तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरि- दुत्तमाः । ताः पिबन्ति सदा हृष्टा नदीर्जन्पदास्तु ते । एते शान्तभयाः प्रीक्ताः प्रमोदा ये च वै शिवाः । आनन्दाश्च सुखाश्चैव क्षेमकाश्च नरैः सह । वर्णाश्रमा- चारयुता देशास्ते सप्त विश्रुताः । आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः । अवसर्पिणी न तेष्वस्ति तथैवोत् सर्पिणी पुनः । न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् । त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते । शाक द्वीपादिषु ज्ञेयं पञ्चस्वंतषु सर्वशः । देशस्य तु विचा- रेण कालः स्वाभाविकः स्मृतः । न तेषु सङ्करः क- श्चित् वर्णाश्वमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेका- न्तसुखिनो जनाः । न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः । विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् । कालो मैव च तेष्वस्ति न दण्डो न च दा- ण्डिकः । स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम्” ।


शब्दकल्पद्रुमः

शाकं || क्ली पुं, (शक्यते भोक्तुमिति । शक + घञ् ।)
पत्रपुष्पादि । साग इति हिन्दीभाषा । तत्- पर्य्यायः । हरितकम् २ शिग्रुः ३ । इत्यमरः ॥ सिग्रुः ४ । इति तट्टीका ॥ हारितकम् ५ । इति शब्दरत्नावली ॥ अथ शाकवर्गः । तत्र शाक- निरूपणम् । “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” अथ शाकानां गुणाः । “प्रायः शाकानि सर्व्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्च्चांसि सृष्टविण्मारुतानि च ॥ शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयञ्च कुरुते पलितञ्च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥ शाकेषु सर्व्वे निवसन्ति रोगाः सहेतवो देहविनाशनाय । तस्माद्बुधः शाकविवर्जनञ्च कुर्य्यात्तथाम्लेषु स एव दोषः ॥” इति भावप्रकाशः ॥ अपि च । “सर्व्वशाकमचाक्षुष्यमलङ्घेयममैथुनम् । ऋते पटोलवास्तूककाकमाचीपुनर्नवाः ॥” इति राजवल्लभः ॥


शब्दकल्पद्रुमः

शाकः || पुं, वृक्षविशेषः । सेगोन् इति भाषा । तत्पर्य्यायः । शाकवृक्षः २ शाकाख्यः ३ खर- पत्रः ४ अर्जुनोपमः ५ । इति रत्नमाला ॥ क्रकचपत्रः ६ शरपत्रः ७ अतिपत्रः ८ अही- रुहः ९ श्रेष्ठकाष्ठः १० स्थिरसारः ११ गृह- द्रुमः १२ । अस्य गुणाः । सारकत्वम् । पित्त- दाहश्रमापहत्वञ्च । अस्य वल्कलगुणाः । कफ- नाशित्वम् । मधुरत्वम् । रूक्षत्वम् । कषाय- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥
शक्तिः । इति मेदिनी ॥ शिरीषवृक्षः । इति शब्दरत्नावली ॥ नृपभेदः । इति विश्वः ॥ द्बीपविशेषः । तस्य विवरणं यथा, — सूत उवाच । “शाकद्बीपस्य वक्ष्यामि यथावदिह निश्चयम् । कथ्यमानं निबोधध्वं शाकद्बीपं द्विजोत्तमाः ॥ जम्बुद्वीपस्य विस्तराद्द्विगुणस्तस्य विस्तरः । विस्ताराद्द्विगुणश्चापि परिणाहः समन्ततः ॥ तेनावृतः समुद्रोऽयं द्वीपेन लवणोदधिः । तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ॥ कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह । तत्रापि पर्व्वताः शुभ्राः सप्तैव मणिभूषिताः ॥ शाकद्वीपादिद्वीपेषु सप्त सप्त नगास्त्रिषु । ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्व्वताः ॥ रत्नाकराद्रिनामानः शोभावन्तो महाचिताः । समाचिताः प्रतिदिशं द्वीपविस्तरमानतः ॥ उभयत्रावगाढाश्च लवणक्षीरसागरौ । शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान् ॥ देवर्षिगन्धर्व्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्ण उदयो नाम पर्व्वतः ॥ तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च । तस्यापरेण सुमहान् जलधारो महागिरिः ॥ सैव चन्द्रः समाख्यातः सर्व्वौषधिसमन्वितः । तस्मान्नित्यमुपादत्ते वासवः परमं जलम् ॥ नारदो नाम सैवोक्तो दुर्गशैलो महाचितः । तत्राचले समुत्पन्नौ पूर्ब्बं नारदपर्व्वतौ ॥ तस्यापरेण सुमहान् श्यामो नाम महागिरिः यत्र श्यामत्वमापन्नाः प्रजाः पूर्व्वमिमाः किल ॥ स एव दुन्दुभिर्नाम श्यामः पर्व्वतसत्तमः । शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ॥ वज्रज्वालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानम्भो गिरिः स्मृतः ॥ सैव सोमक इत्युक्तो देवैर्यत्रामृतं पुरा । सम्भृतञ्च हृतञ्चैव मातुरर्थे गरुत्मता ॥ तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः । हिरण्याक्षो वराहेण तस्मिन् शैले निसूदितः ॥ आम्बिकेयात् परो रम्यः सर्व्वौषधिसमन्वितः । विभ्राजस्तु समाख्यातः स्फाटिकः स महा- गिरिः ॥ यस्माद्विभाजते नित्यं विभ्राजस्तन स स्मृतः । सैवेह केशवेत्युक्तो यतो वायुः प्रवायति ॥ तेषां वर्षाणि वक्ष्यामि पर्व्वतानां द्बिजोत्तमाः । शृणुध्वं नामतस्तानि यथावदनुपूर्ब्बशः ॥ द्विनामान्येव वर्षाणि यथैव गिरयस्तथा । उदयस्योदयं वर्षं जलघारेति विश्रुतम् ॥ नाम्ना सान्तभयन्नाम वर्षं तत् प्रथमं स्मृतम् ॥ द्बितीये जलधारस्य सुकुमारमिति स्मृतम् । तदेव शैशिरं नाम वर्षं संपरिकीर्त्तितम् ॥ रैवतस्य तु कौमारं तथैव च सुखोदयम् । श्यामपर्व्वतवर्षन्तु मणीचकमिति स्मृतम् ॥ आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् । सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्तरम् ॥ तदेव शिवमित्युक्तं वर्षं सोमकसंज्ञितम् । आम्बिकेयस्य मेदाकिं क्षेमकञ्चैव तत् स्मृतम् ॥ सेतुपर्व्वतकस्यापि महाद्रुममिति स्मृतम् । तदेव ध्रुवमित्युक्तं वर्षं बिभ्राजसंज्ञितम् ॥ द्वीपस्य परिणाहञ्च ह्रस्वदीर्घत्वमेव च । जम्वुद्वीपेन संख्यातस्तस्य मध्ये वनस्पतिः ॥ शाको नाम महावृक्षस्तस्य प्रजा महानुगाः । एतेषु देवगन्धर्व्वाः सिद्धाश्च सह चारणैः ॥ विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह । तत्र पुण्या जनपदाश्चातुर्व्वर्ण्यसमन्विताः ॥ तेषु नद्यस्तु वै सप्त प्रतिवर्षे समुद्रगाः । द्बिनाम्नश्चैव ताः सर्व्वा गङ्गाः सप्तविधाः स्मृताः ॥ प्रथमा सुकुमारीति गङ्गा शिवजला शुभा । अनुतप्ता च नाम्नैषा नदी संपरिकीर्त्तिता ॥ सुकुमारी तपःसिद्धा द्वितीया नामतः सती । नन्दा च पावनी चैव तृतीया परिकीर्त्तिता ॥ शिवलोका चतुर्थी स्यात् त्रिविधा च पुनः स्मृता । इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कसू ॥ धेनुका च मृता चैव षष्ठी संपरिकीर्त्तिता । सुकृता च गभस्ती च सप्तमी परिकीर्त्तिता ॥ एताः सप्त महाभागा प्रतिवर्षं शिवोदकाः । पावयन्ति जनं सर्व्वं शाकद्वीपनिवासिनम् ॥ अभिगच्छन्ति ताश्चान्या नदीर्नद्यः सरांसि च । बहूदकपरिस्रावा यतो वर्षति वासवः ॥ आसान्तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥ ताः पिबन्ति महाहृष्टा नदीर्जनपदास्तु ते । ये ते शान्ततया प्रोक्ताः प्रमोदाश्चेति वै शिवाः ॥ आनन्दाश्रुमुखाश्चैव क्षेमकैश्च ध्रुवैः सह । बर्णाश्रमाचारयुक्ता देशास्ते सप्त विश्रुताः ॥ अरोगा बलिनश्चैव सर्व्वे मरणवर्ज्जिताः । अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः ॥ न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् । त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते ॥ शाकद्बीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्व्वशः । देशस्य तु विचारेण कालः खाभाविकः स्मृतः ॥ न तेषु शङ्करः कश्चिद्बर्णाश्रमकृतः क्वचित् । धर्म्मस्याव्यभिचारेण एकान्तसुखिताः प्रजाः ॥ न तेषु माया लोभो वा ईर्ष्यासूया भयं तथा । विपर्य्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् ॥ कालो न चव तेष्वस्ति न दण्डो न च दाण्डिकः । स्वधर्म्मेण च धर्म्मज्ञास्ते रक्षन्ति परस्परम् ॥” इति मात्स्ये १०२ अध्यायः ॥ * ॥
अपि च । एवं परस्तात् क्षीरोदात् परित उपवेशितः शाकद्वोपो द्वात्रिंशल्लक्षयोजनायामः समानेन दधिमण्डोदेन परीतः । यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्रव्यपदेशकः । यस्य हि महासुरभिगन्धस्तद्बीपमनुवायति । तस्यापि प्रैयव्रत एवाधिपतिनाम्ना मेधातिथिः । सोऽपि विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रानीक- चित्ररेफबहुरूपविश्वाधारसंज्ञान् निधाप्याधि- पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश । एतेषां वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव । ईशान उरुशृङ्गो बलभद्रः शत- केशरः सहस्रस्रोता देवपालो महानस इति । अनघा आयूर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रश्रुतिर्निजधृतिरिति । तद्वर्षपुरुषा ऋत- व्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वा- त्मकं प्राणायामविधूतरजस्तमसः परमसमा- धिना यजन्ते । इति श्रीभागवते ५ स्कन्धे २० अध्यायः ॥ * ॥
युधिष्ठिरविक्रमादित्यशालि- वाहनादिशकनरपतीनामतीताब्दः । तस्य प्रमाणं दिनपञ्जिकायां द्रष्टव्यम् ॥ (शक्तिः । कर्म्म । यथा, ऋग्वेदे । ६ । २४ । ४ । “शचीवतस्ते पुरुशाक शाका गवामिव श्रुतयः सञ्चरणीः ॥” “हे पुरुशाक बहुकर्म्मन्निन्द्र शचीवतः प्रज्ञा- वतस्ते त्वदीयाः शाकाः शक्तयः कर्म्माणि वा ।” इति तद्भाष्ये सायणः ॥ * ॥
समर्थे, त्रि । यथा, ऋग्वेदे । ५ । ३० । १० । “सन्ता इन्द्रो असृजदस्य शाकै- र्यदीं सोमासः सुषुता अमन्दन् ॥” “शाकैः शक्तैर्म्मरुद्भिः सह ।” इति तद्भाष्ये सायणः ॥)



Correction: