संस्कृत-शब्दकोशः

शानी शान्तनव

शान्त

वाचस्पत्यम्

शान्त ||‍ त्रि० शम—क्त । १ शमयुक्ते २ अभियुक्ते च शम- णिच्—क्त नि० । ३ शान्तिं गमिते त्रि० । ४ निर्वेदस्थायि० भावके रसभेदे पु० मेदि० । ५ लोमपादराजकन्यायाम्, ऋष्यशृङ्गपत्न्यां ६ शमीभेदे च स्त्री राजनि० । शान्तरसनिरूपणं सा० द० ३ प० यथा “शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दर- च्छायः श्रीनारायणदैवतः । अनित्यत्वादिनाऽशेषवस्तु- निःसारता तु या । परमात्मस्वरूपं वा तस्यालम्बन- मिष्यते । । पुण्याश्रमहरिक्षेत्रतीर्थरभ्यवनादयः । महा- पुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाञ्चाद्याश्चानुभा- वास्तथा स्युर्व्यभिचारिणः । निर्वेदहर्षस्मरणमतिभूत- दयादयः । निरहङ्काररूपत्वाद्दयावीरादिरेष नो” । दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्या- द्यनुरागादेरन्ते च विद्याधरचक्रवर्त्तित्वाद्याप्तेर्दर्शनाद- हङ्कारोपशमो म दृश्यते । शान्तस्तु सर्वप्रकारेणाहङ्कार- प्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति । अतश्च नागानन्दे शान्तरप्रधानत्वमपास्तम्” । ननु “न यत्र दुःखं न सुखं न चिन्ता ब द्बेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रमाणः” इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मरूपापत्तिल- क्षणायां प्रादुर्भावात् तत्र सञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यते । “युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्च न विरुद्धा” । यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य वैषायिकसुखपरत्वान्न विरोधः । उक्तं हि “यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षय- सुखस्यैते नार्हतः षोडशीं कलाम् । सर्वाकारमहङ्कार- रहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरा- दयस्तदा” । आदिशब्दात् धर्मबीरदानवीरदेवताविषय- रतिप्रभृतयः” ।


शब्दकल्पद्रुमः

शान्तः || त्रि (शम + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति निपातितः ।)
उपशमं प्रापितः । प्राप्तोपशमः । इति भरतः ॥ तत्- पर्य्यायः । शमितः २ । इत्यमरः ॥ श्रान्तः ३ जितेन्द्रियः ४ । इति हेमचन्द्रः ॥ शमान्वितः ५ । इति मेदिनी ॥


शब्दकल्पद्रुमः

शान्तः || पुं, अभियुक्तः । रसभेदः । इति मेदिनी ॥ शान्तरसस्य लक्षणादि यथा, —
“शान्तः शमः स्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ अनित्यत्वादिनाशेषवस्तुनिःसारता तु या । परमाथस्वरूपं वा तस्यालम्बनमिष्यते ॥ पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः । महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ॥ रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः । निर्व्वेदहर्षस्मरणमतिभूतदयादयः ॥” यथा, —
“रथ्यान्तश्चरतस्तथा धृतजरत्कन्था नवस्या- ध्वगैः सत्रासञ्च सकौतुकञ्च सदयं दृष्टस्य तैर्नागरैः । निर्व्वीजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कं करटः कदा करपुटी भिक्षां विलुण्ठि- ष्यति ॥” पुष्ठिस्तु महाभारतादौ द्रष्टव्या । “निरहङ्काररूपत्वात् दयावीरादिरेष नो ।” दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवर्त्ति- त्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्व्वप्रकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति । अतश्च नागानन्दे शान्त- रसप्रधानत्वमपास्तम् । ननु । “न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्व्वेषु भावेषु समप्रभाणः ॥” इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्म- स्वरूपापत्तिलक्षणायां प्रादुर्भावात् । तत्र सञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यते युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्च न विरुद्धा । यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि । “यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ सर्व्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा ॥” आदिशब्दात् धर्म्मवीरदानवीरदेवताविषय- रतिप्रभृतयः । तत्र देवताविषया रतिर्यथा, —
“कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥



Correction: