शब्दकल्पद्रुमः
शान्ता || स्त्री दशरथराजकन्या । दशरथेन कन्यार्थं लोमपादाय राज्ञे प्रदत्ता । सा च ऋष्यशृङ्ग- भार्य्या । इति रामायणम् ॥ (यथा, उत्तर- चरिते १ अङ्के । “कन्यां दशरथो राजा शान्तां नाम व्यजी- जनत् । अपत्यकृतिकां राज्ञे लोमपादाय यां ददौ ॥”)
शमीभेदः । तत्पर्य्यायः । शुभा २ भद्रा ३ अप- राजिता ४ जया ५ विजया ६ । अस्या गुणाः शमीवत् । इति राजनिर्घण्टः ॥