संस्कृत-शब्दकोशः

शान्त्वति शापटिक

शाप

वाचस्पत्यम्

शाप ||‍ पु० शप—घञ् । (अनिष्टं भूयादित्येवम्) १ आक्रोश रूपे २ शपथे च मेदि० ।


शब्दकल्पद्रुमः

शापः || पुं, (शपनमिमि । शप + घञ् ।)
आक्रोशः । (यथा, रघुः । ५ । ५६ । “संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ॥”)
दिव्यम् । इति मेदिनी ॥ आद्यस्य पर्य्यायः । अकरणिः २ । इत्यमरः ॥ अजीवनिः ३ अजननिः ४ अवग्रहः ५ निग्रहः ६ । इति भरतः ॥ अभिसम्पातः ७ । इति ग्रन्थान्तरम् ॥ शेषस्य पर्य्यायः । शपनम् २ शपथः ३ । इत्य- मरः ॥ मिथ्यानिरसनम् ४ । इति शब्दरत्ना- वली ॥ (उपद्रवः । यथा, रामायणे । १ । २६ । ३५ । “उवास रजनीं तत्र ताडकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥” “मुक्तशापं अपगतोपद्रवम् ।” इति तट्टीका ॥ जलम् । यथा, ऋग्वेदे । १० । २८ । ४ । “प्रतीपं शापं नद्यो वहन्ति ।” “नद्यो गङ्गाद्याः सरितः प्रतीपं प्रतिकूलं शापं उदकं वहन्ति ।” इति तद्भाष्ये सायणः ॥)



Correction: