वाचस्पत्यम्
शारदिक || न० शरदि भवं श्राद्धं रोगो वा ठञ् । शरत्काले भवे १ श्राद्धे २तत्कालजे रोगे पु०
शब्दकल्पद्रुमः
शारदिकं || क्ली (शरद् + “श्राद्धे शरदः ।” ४ । ३ । १२ । इति ठञ् ।)
श्राद्धम् । इति सिद्धान्त- कौमुदी ॥
शब्दकल्पद्रुमः
शारदिकः || पुं, (शरद् + “विभाषा रोगातपयोः ।” ४ । ३ । १३ । इति ठञ् ।)
रोगः । आतपः । इति सिद्धान्तकौमुदी ॥