संस्कृत-शब्दकोशः

शास्तृ शास्त्रकृत्

शास्त्र

वाचस्पत्यम्

शास्त्र ||‍ न० शिष्यतेऽनेन शास—ष्ट्रत् । १ हितामुशासने ग्रन्थे शास्त्रं च वेदमूलकं सद्भिरादरणीयं नान्यत् यथोक्तं “अतो वेदविरुर्द्धार्थशास्त्रोक्तं कर्म संत्यजेत् । स्वबुद्धि- रचितैः शास्त्रै । प्रतार्य्येह च व्रालिशान् । विध्नन्ति श्रे- यसो मार्गं लोकनाशाय केवलम् । निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान् । तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात् । श्रुतिस्मृतिसदाचारविहितं कर्म शाश्वतम् । स्वं स्वं धर्मं प्रयत्नेन श्रेयोऽर्थीह समा- चरेत् । स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः । तेन ते निरयं यान्ति युगानां सप्तविशतिम्” पद्मपु० १७ अ० । “पुराणं भारतं वेदधर्मशास्त्राणि यानि च । आयुषः क्षपणायैव धर्मतश्चेन्न चाचरेत् । पुत्र- दारादिसंसारः पुंसां संमूढचेतसाम् । विदुषां शास्त्र- सम्भारः सद्योगाभ्यासविघ्नकृत् । इदं ज्ञेयमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति । अपि वर्षशतेनापि शास्त्रान्तं नाधिगच्छति । विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि सञ्चलन् । विहाय शास्त्रजालानि पारलौकिकमाच- रेत् । पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्यश- क्तिकः । यः संसारान्न चात्मानं समुत्तारयितुं क्षमाः” वह्निपु० । तामसशब्दे ३२७१ पृ० दृश्यम् । “बहुशास्त्रालोकनेऽपि सारादानं षट्पदवत्” सांख्यप्र० सू०


शब्दकल्पद्रुमः

शास्त्रं || क्ली (शिष्यते अनेन । शास + “सर्व्व- धातुभ्यष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।)
निदेशः । ग्रन्थः । इत्यमरः ॥ स च ग्रन्थः अष्टादशविधः । तस्य विवरणं विद्याशब्दे द्रष्टव्यम् ॥ * ॥
शास्त्रोत्पत्तिर्यथा, — मत्स्य उवाच । “तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः ॥ पुराणं सर्व्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । मीमांसान्यायविद्याश्च प्रमाणं तर्कसंयुताः ॥ वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः । मनसः पूर्ब्बसृष्टा वै जाता ये तेन मानसाः ॥” इति मात्स्ये ३ अध्यायः ॥ * ॥
शास्त्रोक्तकर्म्म कर्त्तव्यं न तु शास्त्रविरुद्धम् । यथा, —
“श्रुतिस्मृतिसदाचारविहितं कर्म्म केवलम् । सेवितव्यं चतुर्व्वर्णैर्भजद्भिः केशवं सदा ॥ अन्यथा निरयं यान्ति कुमार्गागमसेवनात् । अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म्म संत्यजेत् ॥ स्वबुद्धिरचितैः शास्त्रैः प्रतार्य्येह च बालिशान् । विघ्नन्ति श्रेयसो मार्गं लोकनाशाय केवलम् ॥ निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान् । तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात् ॥ श्रुतिस्मृतिसदाचारविहितं कर्म्म शाश्वतम् । स्वं स्वं धर्म्मं प्रयत्नेन श्रेयोऽर्थीह समाचरेत् ॥ स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः । तेन ते निरयं यान्ति युगानां सप्तविंशतिः ॥” इति पाद्मे उत्तरखण्डे १७ अध्यायः ॥ * ॥
अध्यात्मशास्त्रातिरिक्तशास्त्रनिन्दा यथा, —
“पुराणं भारतं वेदधर्म्मशास्त्राणि यानि च । आयुषः क्षपणायैव धर्म्मतश्चेन्न चाचरेत् ॥ पुत्त्रदारादिसंभारः पुंसां संमूढचेतसाम् । विदुषां शास्त्रसंभारः तद्योगाभ्यासविघ्नकृत् ॥ इदं ज्ञेयमिदं ज्ञेयं यः सर्व्वं ज्ञातुमिच्छति । अपि वर्षशतेनापि शास्त्रान्तं नाधिगच्छति ॥ विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि सञ्चलन् । विहाय शास्त्रजालानि पारलौकिकमाचरेत् ॥ पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्य- शक्तिकः । यः संसारान्न चात्मानं समुत्तारयितुं क्षमः ॥” इति वह्निपुराणे सुनामद्बादशीनामाध्यायः ॥ * ॥
वेदविरुद्धशास्त्राणि यथा, —
“अन्यानि चैव शास्त्राणि लोकेऽस्मिन्मोहनानि च । वेदवादविरुद्धानि मयैव कथितानि तु ॥ वामं पाशुपतं योगं नाकुलं चैव भैरवम् । असेव्यमेतत् कथितं वेदवाह्यं तथेतरत् ॥ वेदमूर्त्तिरहं विप्रा नान्यशास्त्रार्थवादिभिः । ज्ञायते मत्स्वरूपञ्च त्यक्त्वा वेदं सनातनम् ॥” इति कौर्म्मे उपविभागे ३६ अध्यायः ॥ * ॥
अपि च । कूर्म्मपुराणे हिमालयं प्रति देवी- वाक्यम् । “यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विवि- धानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ करालभैरवञ्चापि यामलं वामनाश्रितम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु । मया सृष्टानि चान्यानि मोहायैषां भवार्णवे ॥” तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वर्त्मनि न कदा- चित् पदं न्यस्तव्यम् । इति मलमासतत्त्वम् ॥ * ॥
पृथिव्यां तन्त्रशास्त्रावतरणं यथा, — शिव उवाच । “लम्बोदर महाभाग शृणु मे परमं वचः । इदं महासुसन्दर्भं मम वक्त्राद्बिनिर्गतम् ॥ निर्गतं पार्व्वतीवक्त्रात्तन्त्रं परमदुर्लभम् । विलिख्य बहुयत्नेन गच्छ सिद्धाश्रमं सुत ॥ यत्र तिष्ठन्ति मुनयो वेदवेदाङ्गपारगाः । अणिमादिगुणैर्युक्तः शीघ्रं त्वं भव मे सुत ॥ इत्युक्तः शङ्करेणासौ चाष्टबाहुरभूत्ततः । चतुर्भिर्हस्तैः संलिख्य शिवाय विनिवेदयेत् ॥ शिव उवाच । गच्छ पुत्त्र महाबाहो तन्त्रमादाय सत्वरम् । सिद्धाश्रमं वनं रम्यं यथेन्द्रस्य च नन्दनम् । प्रणम्य प्रययौ शीघ्रं तन्त्रमादाय तद्वनम् ॥” इत्युपक्रम्य । “मुनेर्व्वाक्यं ततः श्रुत्वा तत्तन्त्रं मुनये ददौ । एवं तन्त्राणि सर्व्वाणि विलिख्य विनिवेदयेत् ॥” इति गायत्त्रीतन्त्रे दशमब्राह्मणपटलः ॥ * ॥
शैवपाशुपतादिशास्त्रोत्पत्तिर्यथा, —
“प्रथमं हि मया प्रोक्तं शैवं पाशुपतादिकम् । मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् ॥ कणादेन च संप्रोक्तं शास्त्रं वैशेशिकं महत् । गौतमेन तथा न्यायं सांख्यन्तु कपिलेन तु ॥ धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम् ॥ दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा । बौद्धशास्त्रं तथा प्रोक्तं लग्ननीलपटादिकम् ॥ आपत्यं शुतिवाक्यानां दर्शयन् लोकगर्हितम् । कर्म्मस्वरूपत्याज्यत्वमत्र वै प्रतिपद्यते । सर्व्वकर्म्मपरिभ्रष्टं कल्मषन्तु तदुच्यते ॥ गौतमप्रोक्तशास्त्रार्थनिरताः सर्व्व एव हि । शार्गालीं योनिमापन्नाः सन्दिग्धाः सर्व्व- कर्म्मसु ॥” इति गन्धर्व्वतन्त्रे प्रथमपटलः ॥



Correction: