वाचस्पत्यम्
शास्त्रकृत् || पु० शास्त्रं करोति कृ—क्विप् । मन्वादिषु ऋषिषु त्रिका० ।
शब्दकल्पद्रुमः
शास्त्रकृत् || पुं, (शास्त्रं करोतीति । कृ + क्विप् ।)
ऋषिः । इति त्रिकाण्डशेषः ॥ शास्त्रकर्त्तरि, त्रि ॥ (यथा, भागवते । १ । १० । २२ । “विधित्समानोऽनुससार शास्त्रकृत् ॥”)