वाचस्पत्यम्
शिखण्डिन् || पु० शिखण्डोऽस्त्यस्य इनि । १ मयूरे २ द्रुपद- राजस्य पुत्रभेदे मेदि० । ३ मयूरपुच्छे ४ कुक्कटे ५ वाणे च हेमच० । ६ द्रुञ्जायां ७ स्वर्णयथिकायां राजनि० । ८ विष्णौ विष्णु स० ९ यूथिकायां स्त्री ङीप् मेदि० ।
शब्दकल्पद्रुमः
शिखण्डी || [न्] पुं, मयूरपुच्छः । गाङ्गेयारिः । स तु द्रुपदराजपुत्त्रः । (अस्य जन्मादिविवरणं महाभारते । ५ । १९० अध्याये द्रष्टव्यम् ॥)
मयूरः । इति मेदिनी ॥ (यथा, रघुः । १ । ३९ । “षड्जसंवादिनीः केका द्बिधाभिन्नाः शिख- ण्डिभिः ॥”)
कुक्कुटः । बाणः । इति हेमचन्द्रः ॥ गुञ्जा । स्वर्णयूथिका । इति राजनिर्घण्टः ॥ विष्णुः । यथा । शिखण्डी नहुशो वृषेति तस्य सहस्र- नामस्तोत्रम् ॥ (शिवः । यथा, महाभारते । १३ । १७ । ३१ । “जटी चर्म्मी शिखण्डी च सर्व्वाङ्गः सर्व्व- भावनः ॥”)