संस्कृत-शब्दकोशः

शिखण्डिन् शिखरवासिनी

शिखर

वाचस्पत्यम्

शिखर ||‍ न० शिखा अस्त्यस्य अरच् आलोपः । १ पर्वताग्रे २ अन्तमात्रे च । ३ वृक्षाग्रे पु० न० अमरः । ४ पुलके ५ शु- ष्कतृणादौ पक्वदाडिमवीक्षाभे ६ रत्नभेदे ७ सकलाग्रे मेदि० । ८ कोटौ त्रिका० । ९ मूर्वायां स्त्री शब्दच० ।


शब्दकल्पद्रुमः

शिखरं || क्ली (शिखास्यास्तीति । “वुञ्छण्- कठजिति ।” ४ । २ । ८० । अश्मादित्वात् रः ह्रस्वश्च ।)
पर्व्वताग्रम् । तत्पर्य्यायः । कूटम् २ शृङ्गम् ३ । इत्यमरः ॥ शैलाग्रदेशकम् ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १९ । २८ । “विदारयन् गिरिशिखराणि पत्रिभिः ॥”)


शब्दकल्पद्रुमः

शिखरः || पुं, क्ली, (शिखास्त्यस्येति । शिखा + रः । ह्रस्वश्च ।)
वृक्षाग्रम् । तत्पर्य्यायः । शिरः २ अग्रम् ३ । इत्यमरः ॥ शिरम् ४ । इति शब्द- रत्नावली ॥ प्राग्रम् ५ । इति राजनिर्घण्टः ॥ पर्व्वतशृङ्गम् । पुलकः । कक्षः । पक्वदाडिम- बीजाममाणिक्यम् । सकलाग्रम् । इति मेदिनी ॥ कोटिः । इति त्रिकाण्डशेषः ॥



Correction: