संस्कृत-शब्दकोशः

शिखरा शिखरिन्

शिखरिणी

शब्दकल्पद्रुमः

शिखरिणी || स्त्री रसाला । वृत्तभेदः । नारी- रत्नम् । मल्लिका । रोमावली । इति मेदिनी ॥ वृत्तभेदो यथा, —
“रसै रुद्रैश्छिन्ना य-म-न-स भला गः शिख- रिणी । करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्यद्गोपानुचितनिभृतालापजनितं स्मितं बिभ्रत् देवो जगदवतु गोवर्द्धनधरः ॥” इति छन्दोमञ्जर्य्याम् २ स्तवकः ॥ नवमालिका । द्राक्षाविशेषः । इति राज- निर्घण्टः ॥ मूर्व्वा । इति शब्दचन्द्रिका ॥



Correction: