संस्कृत-शब्दकोशः

शिखरिणी शिखलोहित

शिखरिन्

वाचस्पत्यम्

शिखरिन् ||‍ पु० शिखाऽस्त्यस्य इनि । १ पर्वते २ वृक्षे ३ अपा- मार्मे मेदि० ४ कोट्टे ५ कोयष्टौ हेमच० । ६ वन्दाके ७ कु- न्दुरुके ८ याववाले ९ कर्कटशृङ्ग्यां राजनि० । रसा- लायां खाद्यभेदे स्त्री । ११ सप्तदशाक्षरपादके छन्दीभेदे स्त्री “रसैरुद्रैश्छिन्ना यमननभला गः शिखरिणी” वृ० र० १२ मल्लिकायां १३ रोमावल्यां १४ नारीरत्ने च स्त्री मेदि० सर्वत्र ङीप् ।


शब्दकल्पद्रुमः

शिखरी || [न्] पुं, (शिखरोऽस्यास्तीति । शिखर + इनिः ।)
पर्व्वतः । (यथा, गीतायाम् । १० । २३ । “वसूनां पावकश्चास्मि मेरुः शिखरिणाम- हम् ॥”)
वृक्षः । अपामार्गः । इति मेदिनी ॥ कोट्टः । कोयष्टिः । इति हेमचन्द्रः । वन्दाकः । कर्कट- शृङ्गी । कुन्दुरुकः । यावनालः । इति राज- निर्घण्टः ॥ (कोटिविशिष्टे, त्रि । यथा, महा- भारते । १ । ७४ । ४ । “दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो- महान् ॥”)



Correction: