संस्कृत-शब्दकोशः

शिखलोहित शिखाकन्द

शिखा

वाचस्पत्यम्

शिखा ||‍ स्त्री शी—खक् तस्य नेत्त्वम् पृषो० । १ अग्निज्वालायां २ मस्तकमध्यकेशपुञ्जे च अमरः । “मुण्डयेत् सर्व गात्राणि कक्षोपस्थशिखां बहिः” प्रा० त० । ३ शाखाथां ४ बहिचूडायां ५ काङ्गलिक्याम् ६ अग्रमात्रे ७ चूडा- मात्रे ८ प्रपदे च मेदि० । ९ प्रधाने शिक्षायां १० घृणौ हेमच० । ११ स्मरज्वरे शब्दच० । “शिखी तिलकी कर्म कुर्य्यात् ज्रुत्या शिखावत एव कर्म- ण्यधिकारः तत्रापि बद्धशिखस्य कभण्यधिकारः न मुक्त- शिवस्य यथोक्तं गायत्र्या तु शिखां बद्ध्वा मैर्कृत्यां ल{??}रब्धतः । जूटिकात ततो {??} ततः कर्म समा- रभेत्” । “निबद्धशिस्य आसीनो द्विज आसमनं चरेत् । कृत्वोपवीतं सव्येऽसे वाङ्मनःकायसंयतः” । मुक्तशि- खस्याचमने दोषो यथा “शिरः प्रावृत्य कण्ठं वा मुक्त- कच्छशिखोऽषि वा । अकृत्वा पादयोः शौचमाचान्तो- ऽप्यशुचिर्भवेत् आ० त० ।


शब्दकल्पद्रुमः

शिखा || स्त्री (शी + “शीङो ह्रस्वश्च ।” उणा० ५ । २४ । इति खः ह्रस्वो गुणाभावश्च । स्त्रियां टाप् ।)
अग्निज्वाला । तत्पर्य्यायः । ज्वालः २ कीलः ३ अर्च्चिः ४ हेतिः ५ शिखा ६ । इत्य- मरः ॥ (यथा, माघे, । १ । २० । “विदुद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥”)
पिण्डितशिखाग्नेः शुभसूचकत्वं यथा, वायु- पुराणे । “अर्च्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसन्निभः । स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात् कार्य्य- सिद्धये ॥” * ॥
अग्नेरशुभलक्षणं यथा । ब्रह्मपुराणे । “अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके । आर्द्रकाष्ठैश्च सम्पन्ने फुत्कारवति पावके ॥ कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतीर्जुहुयात् यश्च तस्य नाशो भवेत् ध्रुवम् ॥” इति तिथितत्त्वम् ॥ * ॥
शिरोमध्यस्थकेशः । तत्पर्य्यायः । चूडा २ केश- पाशी ३ । इत्यमरः ॥ जुटिका ४ जूटिका ५ । इति शब्दरत्नावली ॥ केशी ६ शिखण्डिका ७ । इति हेमचन्द्रः ॥ * ॥
गायत्त्र्या शिखाबन्धन यथा, —
“गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः । जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत् ॥” * शूद्रस्थ शिखाबन्धे मन्त्रो यथा, —
“ब्रह्मवाणीसहस्राणि शिववाणी शतानि च । विष्णोर्नामसहस्रेण शिखाबन्धं करोम्यहम् ॥” * शिखामोचनमन्त्रो यथा, —
“गच्छन्तु सकला देवा ब्रह्मविष्णुमहेश्वराः । तिष्ठत्वत्राचला लक्ष्मीः शिखामुक्तं करोम्य- हम् ॥” * ॥
शिखाबन्धनानन्तरमाचमनं यथा, —
“निबद्धशिख आसीनो द्विज आचमनं चरेत् । कृत्वोपवीतं सव्येऽंशे वाङ्मनःकायसंयतः ॥” * ॥
मुक्तशिखस्याचमने दोषो यथा, —
“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । अकृत्वा पादयोः शौचं आचान्तोऽप्यशुचि- र्भवेत् ॥” इति आह्निकतत्त्वम् ॥ * ॥
शाखा । वर्हिचूडा । (यथा, महाभारते । १२ । २८२ । ५३ । “रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् ॥”)
लाङ्गलिकी । अग्रमात्रम् । (यथा, भागवते । ३ । १३ । ४४ । “सटाशिखोद्धूतशिवाम्बुबिन्दुभिः ॥”)
चूडामात्रम् । प्रपदम् । इति मेदिनी ॥ प्रधा- णम् । शिफा । घृणिः । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । २१ । ८५ । “स्फुरद्रत्नशिखाजालं धात्रा मोहतमोप- हम् ॥”)
स्मरज्वरः । इति शब्दरत्नावली ॥



Correction: