संस्कृत-शब्दकोशः

शितिसारक शिनि

शिथिल

वाचस्पत्यम्

शिथिल ||‍ त्रि० श्लथ—किलच् पृषो० । १ श्लथे २ अदृढे संयोग- भेदे ३ मन्दे च शिथिलसंयोगश्च प्रचयः । “प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते” भाषा० “भूयोऽ- वयवावच्छेदेत्रावयवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः प्रचयः” इति दीनकरी यथा तूलकादौ ।


शब्दकल्पद्रुमः

शिथिलं || क्ली (श्रथ + किरच् ।)
मन्दबन्धनम् । मन्यरत्वम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ संयोगविशेषः । यथा, —
“प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।” इति भाषापरिच्छेदः ॥ “प्रचय इति मूले शिथिलाख्य इति किञ्चिदव- यवावच्छेदेनावयवान्तरसंयोगिनि महत्त्ववति अवयवे वर्त्तमानः संयोगः प्रचय इत्येके । अत्र महत्त्वपद न देयं परमाणुसंयोगस्य प्रचयत्वे- ऽपि न क्षतिरित्यन्ये । भूयोऽवयवावच्छेदेनाव- यवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः प्रचयः तेन परमाणुसंयोगो द्व्यणुकसंयोगो वा न प्रचय इत्यमरे ।” इति सिद्धान्तमुक्तावली- टीकादिनकरी ॥


शब्दकल्पद्रुमः

शिथिलं || त्रि (श्रथ + “अजिरशिशिरशिथि- लेति ।” उणा० १ । ५४ । इति किरच्- प्रत्ययेन साधुः ।)
श्लथः । इति हेमचन्द्रः ॥ (यथा, भागवते । ४ । २८ । १५ । “शिथिलावयवो यर्हि गन्धर्व्वैर्हृ तपौरुषः ॥”)



Correction: