वाचस्पत्यम्
शिपि || पु० शी—क्विप् तां पाति पा—कि पृषो० ह्रस्वः । १ रश्मौ २ जले न० “शैत्यात् शयनयोगाच्च शिपि वारि प्रचक्षते । तत् पानाद्रक्षणाच्चैव शिपयो रश्मयो मता । तेषु प्रवेशात् विश्वेशः शिपिविष्ट इहोच्यते” व्यासः ।
शब्दकल्पद्रुमः
शिपिः || पुं, रश्मिः । यथा, —
“शैत्यात् शयनयोगाच्च शिपिवारि प्रचक्षते । तत्पानाद्रक्षणांच्चैव शिपयो रश्मयो मताः । तेषु प्रवेशात् विश्वेशः शिपिविष्ट इहोच्यते ॥” इति व्यासवनम् ॥