वाचस्पत्यम्
शिल्प || न० शिल—पक् । चित्रकलादिकर्मसु अमरः । २ स्रुचि मेदि० । तदारम्भमुहूर्त्तः मु० चि० उक्तो यथा “मृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा ख १० लग्नगे । विधौ ज्ञजीवबर्गस्थे शिल्पारम्भः प्रशस्यते” ।
शब्दकल्पद्रुमः
शिल्पं || क्ली (शील समाधौ + “खष्पशिल्पशष्प- वाष्परूपपर्पतल्पाः ।” उणा० । २ । २८ । इति पः ह्रस्वश्च ।)
कलादिकं कर्म्म । इत्यमरः ॥ हुनर इति पारसीकभाषा । कारीगरी इति हिन्दीभाषा ॥ वात्स्यायनोक्तनृत्यगीतवाद्यादि- श्चतुषष्टिः वाह्यक्रियाः तथा आलिङ्गनचुम्ब- नादिचतुषष्टिः अभ्यन्तरक्रियाः कलाः । आदिना स्वर्णकारादिकारुकर्म्मग्रहः । एतत् सर्वं शिल्पं कथ्यते । इति तट्टीकायां भरतः ॥ (यथा कथासरित्सागरे । २५ । १७५ । “ते तन्निरूप्य जगदुर्नेदृशो देव शक्यते । अपरः कर्त्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ॥”)
स्रुवः । इति मेदिनी ॥