संस्कृत-शब्दकोशः

शी शीकर

शीक

वाचस्पत्यम्

शीक ||‍ आमर्षे सेके च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । शीकयति ते शीकति अशीशिकत्—त अशीकीत् ।


वाचस्पत्यम्

शीक ||‍ मेके सर्पणे च भ्वा० आत्म० सक० सेट् । शीकते अशी- किष्ट । ऋदित् चङि न ह्रस्वः ।


शब्दकल्पद्रुमः

शीक || ऋ ङ सेके । सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ऋ, अशिशीकत् । ङ, शीकते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शीक || कि आमर्शे । सेके । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-सक०-सेट् ।)
कि, शीक- यति शीकति । आमर्शः स्पर्शः । तथा च । “चन्द्रावतीतरङ्गार्द्रा शीकयन्ति च यद्वपुः ।” इति हलायुधः ॥ वायवः स्पृशन्ति इत्यर्थः । भट्टमल्लस्तु आमर्षण इति मूर्द्ध्वन्यषमध्यं पठित्वा क्षमार्थमाह । इति दुर्गादासः ॥



Correction: