संस्कृत-शब्दकोशः

शिह्लक शीक

शी

वाचस्पत्यम्

शी ||‍ शयने अदा० आत्म० अक० सेट् । शेते शेरते अशयिष्ट । ञीत् वर्त्तमाने क्त शयितः । शयित्वा ।


वाचस्पत्यम्

शी ||‍ स्त्री शी—भावे क्विप् । १ शयने २ शान्तौ च शब्दर० ।


शब्दकल्पद्रुमः

शी || ङ ल ञि स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०- आत्म०-अक०-सेट् । ङ ल, शेते । ञि, शयि- तोऽस्ति । मण्डपे शयामीति गणकृतानित्यत्वात् परस्मैपदे शपोऽलुग्भावे चेति रमानाथः । वस्तुतस्तु शेते शयः पश्चात् शय इवाचरतीति क्वौ साध्यम् । इति दुर्गादामः ॥


शब्दकल्पद्रुमः

शीः || स्त्री (शी + क्विप् ।)
शान्तिः । शयनम् । इति शब्दरत्नावली ॥



Correction: