वाचस्पत्यम्
शीर्ण || त्रि० शॄ—क्त । १ कृशे २ शुष्कताप्राप्ते च मेदि० । ३ स्थौ णेयके भावप्र० ।
शब्दकल्पद्रुमः
शीर्णं || क्ली (शॄ + क्तः ।)
स्थौणेयकम् । इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
शीर्णं || त्रि (शॄ + क्तः ।)
कृशः । विशीर्णः । इति मेदिनी ॥ (यथा, आर्य्यासप्तशत्याम् । ५९७ । “शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥”)