वाचस्पत्यम्
शुद्धि || स्त्री शुध—क्तिन् । १ मार्जने जटा० २ नैर्मल्यसम्पादने ३ वैदिककर्णयोग्यत्वासम्पादकसंस्कारभेदे च । ४ दुर्गायां “स्मरणाच्चिन्तनाद्वापि शोध्यते येन पातकात् । तेन शुद्धि समाख्याता देवी रुद्रतनौ स्थिता” देवीपु० तन्नामनिरुक्तिः
शब्दकल्पद्रुमः
शुद्धिः || स्त्री (शुथ + क्तिन् ।)
दुर्गा । यथा, —
“स्मरणाच्चिन्तनाद्वापि शोध्यते स हि पातकात् तेन शु द्धिः समाख्याता देवी रुद्रतनौ स्थिता ॥” इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥ मार्ज्जना । इति जटाधरः ॥ वैदिककर्म्मार्हत्व- प्रयोजकसंस्कारविशेषः । यथा । शुद्ध्यशुद्ध्योः संस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थितिर्घटते अशु द्धेर्भावरूपत्वे शुद्धे स्तदभावरूपत्वे नैतत् विरोधात् । अतएव शङ्खः । “ततः श्राद्धमशु द्धौ तु कुर्य्यादेकादशे तथा । कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥” अशुद्धौ चतुर्थाहादौ । कथमशुद्धौ श्राद्धं कालाशौचस्याधिकारिविशेषणत्वादत आह- कर्त्तुस्तात्कालिकीति । श्राद्धविधानाक्षेपात्त- न्मात्रनिष्ठा शुद्धिः कल्प्यते । स पुनरशुद्ध एव कर्म्मान्तर एव । इति श्राद्धविवेकः ॥ एवं शुद्धे- र्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः । तथात्वे अशौचसङ्करोऽपि न स्यात् । एकस्मिन् शु द्ध्यभावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषीयशु द्धिरूपप्रतियोग्यन्तरा- भावादनुत्पत्तेः । तस्मात् शुद्ध्यशु द्ध्योर्भावरूप- त्वम् । इति शुद्धितत्वम् ॥ * ॥
अथाशौचिशुद्धिः । “अघवृद्धिमदाशौचमूर्द्ध्वञ्चेत्तेन शुध्यति । अथ चेत् पञ्चमीं रात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्व्वेण शुध्यति ॥” अघवृद्धिमत्तन्तु । सपिण्डजननाशौचापेक्षया स्वपुत्त्रजननाशौचस्य सपिण्डमरणाशौचापेक्षया पितृमातृमर्तृमरणाशौचस्य । * । “जाते पुत्त्रे पितुः स्नानं सचेलन्तु विधीयते । माता शुध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः ॥” शुध्येत् स्पर्शमात्रे उत्तरवाक्ये तथा दर्शनात् । * । जननाशौचमध्ये तु यद्यपरं जननं स्यात् तदा पूर्व्वाशौचव्यपगमे शुद्धिः रात्रिशेषे दिनद्वयेन प्रभाते दिनत्रयेण मरणाशौचमध्ये ज्ञातिमरणे ऽप्येवमिति ॥ * ॥
“यस्य यस्य तु वर्णस्य यद्यत् स्यात् पश्चिमं त्वहः । स तत्र वस्त्रशु द्धिञ्च गृहशुद्धिं करोत्यपि ॥ समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम् । ग्रामाद्बहिस्ततो गत्वा प्रेतस्पृष्टे च वाससी ॥ अन्त्यानामाश्रितानाञ्च त्यक्त्वा स्नानं करोत्यपि । श्मश्रुलोमनखानाञ्च यत्त्याज्यं तज्जहात्यपि ॥ गौरसर्षपकल्केन तिलतैलेन संयुतः । शिरः स्नानं ततः कृत्वा तोयेनाचम्य वाग्यतः ॥ वासोयुगं नवं शु भ्रमव्रणं शुद्धमेव च । गृहीत्वा गां सुवर्णञ्च मङ्गलानि शुभानि च ॥ स्पृष्ट्वा संकीर्त्तयित्वा तु पश्चात् शुद्धो भवेन्नरः ॥” गृहशुद्धिः प्राक्तनपाकभाण्डपरित्याग उपलेपा- दिना । त्याज्यं त्यागार्हम् । “अघाहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः । आशुच्याद्विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि । न तु पूर्व्वेण शुद्धिः स्यात् स्वकालेनैव शुध्यति ममानं लघु चाशौचं पूर्व्वेणैव विशु ध्यति । यदि स्यात् सूतके सूतिर्मृ तके च मृतिर्भवेत् ॥ शेषेणैव भवेच्छुद्धिरहःशेषे द्विरात्रकम् । मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते ॥ * ॥
अर्व्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भ- संस्रवः । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यिते ॥ गर्भश्रुत्यां यथामासमचिरे तूत्तमे त्र्यहः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च ॥ अष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्त्तिता । रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ॥ रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला । शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः । दैवे कर्म्मणि पैत्र्ये च पञ्चमेऽहनि शुध्यति ॥ * ॥
दत्ता नारी पितुर्गेहे सूयते म्रियतेऽथवा । स्वमशौचं चरेत् सम्यक् पृथक्स्थानव्यवस्थिता ॥ तद्बन्धुवर्गस्त्वेकेन शुध्येत्तु जनकस्त्रिभिः । यस्तैः सहासनं कुर्य्यात् शयनादीनि चैव हि । बान्धवो वा परो वापि स दशाहेन शुध्यति ॥ स्त्रीणामसंस्कृतानान्तु त्र्यहात् शुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति हि सनाभयः ॥ * ॥
षण्मासाभ्यन्तरे शूद्रे मृते बाले त्र्यहं विदुः । अनतीते द्विवर्षे वै मृते शुध्येत्तु पञ्चभिः ॥ बालस्त्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्नाशौचं नैव सूतकम् ॥ नृणामकृतचूडानामशुद्धिर्नैशिकी स्मृता । निवृतचूडकानान्तु त्रिरात्राच्छुद्धिरिष्यते ॥ * ॥
दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके । त्रिरात्रेण सकुख्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः ॥ शुध्ये द्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ दशमेऽहनि शूद्रस्य कार्य्यं संस्पर्शनं बुधैः । मासेनैव विशुद्धिः स्यात् सूतके मृतकेऽपि वा ॥ संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादिति धर्म्मो व्यवस्थितः ॥ पित्रोरुपरमे स्त्रीणामूढानान्तु कथं भवेत् । त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान् शिवः ॥ यदा भोजनकाले तु अशुचिर्भवति द्विजः । भूमौ निःक्षिप्य तद्ग्रासं स्नात्वा चैव विशु- ध्यति ॥ * ॥
चिकित्सकौ यत् कुरुते तदन्येन न शक्यते । तस्मात् चिकित्सकस्पर्शे शुद्धो भवति नित्यशः ॥ गर्भिणी सूतिका नक्तं कुमारी च रजस्वला । यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥ * ॥
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः । स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति । एकाहात् क्षत्त्रिये शुद्धिर्वैश्ये च स्याद्द्व्यहेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ * ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ यद्यन्नमत्ति तेषान्तु स दशाहेन शुध्यति । अनदन्नन्नमह्नैव न चेत्तस्मिन् गृहे वसेत् ॥ * ॥
अस्थिसञ्चयनादर्व्वाक् यदि विप्रोऽश्रु पातयेत् । मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥ अस्थिसञ्चयनादूर्द्धं यावन्मासं द्विजातयः । दिवसेनैव शुद्धिः स्याद्वाससां क्षालनेन च ॥ * ॥
स्वजातेर्दिवसेनैव त्र्यहात् क्षत्रियवैश्ययोः । स्पर्शं विनानुगमने शूद्रो नक्तेन शुध्यति ॥ * ॥
अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिका । दशरात्रेण शुध्यन्ति भूमिष्ठञ्च नवोदकम् ॥ * ॥
उदक्या सूतिका वापि अन्त्यजं संस्पृशेद्यदि । त्रिरात्रेणैव शुद्धिः स्यादिति शातातपोऽब्र- वीत् ॥ * नवखातजलं गावो महिष्यश्छागयोनयः । शु ध्यन्ति दिवसैरेव दशभिर्नात्र संशयः ॥ काले नवोदकं शुद्धं न पातव्यन्तु तत्त्र्यहम् ॥” * ॥
अथ द्रव्यशुद्धिः । ब्राह्मे । “सुवर्णरूप्यशङ्खाश्मशु क्तिरत्नमयानि च । कांसायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥ निर्लेपानि विशु ध्यन्ति केवलेन जलेन तु । शुद्रोच्छिष्टानि शुध्यन्ति त्रिधाक्षाराम्ल- वारिभिः ॥ सूतिकाशवविण्मूत्ररजस्वलाहतानि च । प्रक्षेप्तव्यानि तानग्नौ यच्च यावत् सहेदपि ॥” रैत्यं पित्तलम् । त्रपु रङ्गम् । यत्पात्रं यावत् । कालमग्निं सहेत तत् पात्रं प्रक्षालनान्तरं । तावत्तापनीयमित्यर्थः ॥ * ॥
बृहस्पतिः । “अम्भसा हेमरत्नायः कांस्यं शुध्येत भस्मना । अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥” राजधर्म्मे । “पज्जलोच्छिष्टकांस्यं यत् गवाघ्रातमथापि वा । गण्डूषोच्छिष्टममि च विशुध्येद्दशभिस्तु तत् ॥” दशभिर्दिनैरिति शेषः । तथा च । “कांस्ये न धावयेत् पादौ यत्र स्यादपि भोजन- मिति ।” यत्र पात्रान्तरे भोजनं तत्र श्रुतस्यैव तस्य साहचर्य्यात् कांस्यवच्छुद्धिः ॥ * ॥
बौधायनः । “भिन्नकांस्ये त योऽश्नीयात् नद्यां स्नात्वा जपेद्दिजः । गायत्त्र्यष्टसहस्रन्तु एकभक्तस्ततः शुचिः ॥” देवलः । ताम्ररजतसुवर्णाश्मस्फटिकानां भिन्न- मभिन्नम् । इति भिन्नत्वेऽपि न दोष इत्यर्थः ॥ * ॥
विष्णुः । शारीरैर्मलैः सुराभिर्मद्यैर्व्वा यदुपहतं तदत्यन्तोपहतं सर्व्वं लौहभाण्डमग्नौ प्रतप्तं शध्ये त । मणिमयमश्ममयमब्जमयञ्च सप्तरात्रं महीखननेन शृङ्गदन्तास्थिमयञ्च तक्षणेन दारु मयं मृण्मयं जह्यादिति । लौहपद सुवर्णाद्य- ष्टकपरम् ॥ * ॥
मनुः । “त्रीणिदेवाः पवित्राणि ब्राह्मणानामकल्पयन् अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥” अदृष्टमुपघातशङ्कादिभिरज्ञातम् । अज्ञातञ्च सदा शुचि इति याज्ञवल्क्यैकवाक्यत्वात् । वाचेति उपघातशङ्कायां पवित्रं भवत्विति ब्राह्मणैर्यद्वाचा प्रशस्यते इति शूलपाणिमहा- महोपाध्यायकुल्लूकभट्टौ ॥ * ॥
शातातपः । “गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः । अमीमांस्यानि शौचानि स्त्रीषु वालातुरेषु च ॥” मनुः । “मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥” बौधायनः । “अदुष्टाः सन्तताधारा वातोद्धूताश्च रेणवः । आकराः शुचयः सर्व्वे वर्जयित्वा सुराकरम् ॥” शङ्खलिखितौ । आकरद्रव्याणि प्रोक्षितानि शुचीनि ॥ * ॥
यमः । “आममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः ॥” विष्णुधर्म्भोत्तरे । “मुखवर्जञ्च गौः शुद्धा मार्ज्जारश्चक्रमे शुचिः । पुष्पाणाञ्च फलानाञ्च प्रोक्षणात् शुद्धिरिष्यते ॥” अत्रिः । “मक्षिका सन्तताधारा भूमिस्तोयं हुताशनः । मार्ज्जारश्चापि दर्व्वी च मारुतश्च सदा शुचिः ॥” बौधायनः । अनेकोद्वाह्ये दारुशिले भूमिसमे इष्टकाश्च सङ्कीर्णीभूताः इति । सङ्कीर्णीभूताः परस्परसम्बद्धाः ॥ * ॥
विष्णुः । प्रोक्षणेन पुस्तकं इति ॥ * ॥
शातातपः । “तापनं घृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुध्येत् कठिनन्तु पयो दधि । अविलीनं तथा सर्पिर्व्विलीनं श्रपणेन तु ॥” अविलीनं कठिनम् ॥ * ॥
मनुः । “द्रव्याणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम् । प्रोक्षणं संहतानाञ्च द्वारवाणाञ्च तक्षणम् ॥” इदन्तूच्छिष्टाद्यल्पदोषे । उत्प्लवनं वस्त्रान्तर- निर्व्वापणेन कीटाद्यपनयनम् ॥ * ॥
शातातपः । “क्लीवाभिशप्तपतितैः सूतिकोदक्यनास्तिकैः । दृष्टं वा स्यात् यदन्नन्तु तस्य निष्कृ तिरुच्यते ॥ अभ्युक्ष्य किञ्चिदुद्धृत्य भुञ्जीताप्यविशङ्कितः ॥ * ॥
देवलः । “चाण्डालेन शुना वापि दृष्टं हविरयज्ञियम् । विडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत् ॥” अन्यत्र हिरण्योदकस्पर्शादिति ॥ * ॥
मनुः । “अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥” शुद्धिरित्यनुवृत्तौ विष्णुः । गुडानामिक्षुविका- राणां प्रभूतानां वाय्वग्निदानेन सर्व्वलवणाना- ञ्चेति ॥ * ॥
अङ्गिराः । “यथा यतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः शूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥” प्रविष्टं स्वत्वापादकप्रतिग्राहादिनेति शेषः ॥ “सकुणपं सकर्द्दमं तेभ्यस्तोयमपास्य तत् । प्रक्षिपेत् पञ्चगव्यञ्च समन्त्रं सर्व्वशु द्धिकृत् ॥ अपास्य कुणपं तेभ्यो बहुतोयेभ्य एष वा । शतं षष्ट्यथवा त्रिंशत् तोयकुम्भान् समुद्धरेत् ॥ पञ्चनव्यं ततस्तेषु प्रक्षिपेन्मन्त्रपूर्व्वकम् ॥” शतादि अल्पत्वाद्यपेक्षया अत्यल्पस्य सर्व्वो- द्धारणाभिधानात् ॥ * ॥
बृहन्मनुः । “श्वशूद्रपतिताश्चान्त्या मृताश्चे द्विजमन्दिरे । शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा ॥ दशरात्राच्छुनि प्रेते मासात् शूद्रे भवेच्छुचिः । द्वाभ्यान्तु पतिते गेहे अन्त्ये मासचतुष्टायात् । अन्यन्त्ये वर्जयेद्गेहमित्येवं मनुरव्रवीत् ॥” यमः । “द्विजस्व मरणे वेश्म विशुध्यति दिनत्रयात् । दिनैकेन बहिर्भुमिरग्निक्षेपणलेपनैः ॥” * ॥
यथोक्तकालानन्तरं कर्त्तव्यमाह सम्बर्त्तः । “गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते । प्रोत्सृज्य मृण्मयं पात्रं सिद्धमन्नं तथैव च ॥ गृहादपास्य तत् सर्व्वं गोमयेनानुलेपयेत् । गोमयेनानुलिप्याथ छागेनाघ्रापयेद्बुधः ॥ व्राह्मणैर्म्मन्त्रपूतैश्च हिरण्यकुशवारिभिः । सर्व्वमभ्यु क्षयेद्वेश्म ततः शुध्यत्यसंशयः ॥” मन्त्रानादेशे गायत्त्री ॥ * ॥
देवलः । “पञ्चधा वा चतुर्धा वा भूरमेध्या विशुध्यति । दुष्टा द्विधा त्रिधा वापि शुध्यते मलिनैकधा ॥ दहनं खननं भूमेरुपलेपनवापने । पर्जन्यवर्षणञ्चापि शौचं पञ्चविधं स्मृतम् ॥ प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः । चाण्डालैरुषितं यत्र यत्र विन्यस्यते शवः ॥ विण्मुत्रोपहतं यच्च कुणपो यत्र दृश्यते । एवं कश्मलभूयिष्ठा भूरमेध्यातिकथ्यते ॥ कृमिकीटपदक्षेपर्दूषिता यत्र मेदिनी । त्रप्सया कर्षणैः क्षिप्ता वान्तैर्व्वा दुष्टतां व्रजेत् ॥ नखदन्ततनूजत्वक्तुषपांशुरजोमलैः । भस्मपङ्कतृणैर्व्वापि प्रच्छन्ना मलिना भवेत् ॥” वापनं मृदन्तरेण पूरणम् । त्रप्सा घनीभूत- श्लेष्मादि । इति शुद्धितत्त्वम् ॥ * ॥
अपिच । याज्ञवल्क्य उवाच । “द्रव्यशुद्धिं प्रवक्ष्यामि तान्निबोधत सत्तमाः । सौवर्णराजताब्जानां शाकवज्रादिचर्म्मणाम् ॥ पात्राणां चमसानाञ्च वारिणा शुद्धिरिष्यते । उष्णवार्भिः श्रुक्श्रुवयोर्धान्यादेः प्रोक्षणेन च ॥ तक्षणात् दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनात् । सोष्णैरुदकगोमूत्रैः शुध्यत्याविककैशिकम् ॥ भैक्षं योषिन्मु खं पुण्यं पुनः पाकान्महीमयम् । गोघ्राते च तथा केशमक्षिकाकीटदूषिते । भस्मक्षेपाद्विशुद्धिः स्याद्विशुद्धिर्मार्जनादिना ॥ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिर्लोहकांस्यानामज्ञातञ्च सदा शुचि ॥ अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात् । शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम् ॥ तथा मांसं श्वचाण्डालक्रव्यदादिनिपातितम् । रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ॥ अश्वाजविप्र षो मेध्यास्तथा चामलबिन्दवः । स्नात्वा पीत्वा क्षुते सुप्ते भुक्ता रथ्योपसर्पणे ॥ आचान्तः पुनराचामेत् वासो व्युत्परिधायच । क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने ॥ पञ्चस्वेतेषु नाचामेत् दक्षिणं श्रवणं स्पृशेत् । तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥” इति गारुडे ९७ अध्यायः ॥ अन्यच्च । “मणिवस्त्रप्रबालानां तद्वन्मुक्ताफलस्य च । शैलदारुमयानाञ्च तृणगुल्मौषधस्य च ॥ शाकधान्याजिनानाञ्च संहतानाञ्च वाससाम् । वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥ सस्नेहानामथोष्णेन तिलकल्केन शोधनम् । कार्पासिकानां वस्त्राणां शुद्धिः स्यात् सह भस्मना ॥ नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते । पुनःपाकेन भाण्डानां मृण्मयानाञ्च शुद्धता ॥ शुद्धं भक्षं कारुहस्तः पण्यं योषिन्मु कं तथा । रथ्यागतमविज्ञातं दासवर्गेण यत् कृतम् ॥ वाक्यशस्तं चिरानीतमनेकान्तरितं लघु । चेष्टितं बालवृद्धानां बालस्य तु मुखं शुचि ॥ म्ले च्छानामपि गोशालास्तनन्धयसुताः स्त्रियः वाग्विप्रुषो द्विजेन्द्राणां पाठे वागम्बुबिन्दवः ॥ भूमिर्विशुध्यते खातदाहगोक्रमसेचनैः । लेपादुल्ले खनात् सेकात् वेश्मसम्मार्ज्जनाज्जलात् केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते । मृद्वारिभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥ उडम्बराणाञ्चाम्लेन क्षारेण त्रपुसीसयोः । कांस्यानां भस्मना शुद्धिस्तोयाच्छुद्धिर्द्रवस्य च ॥ अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च । अन्येषामपि तद्द्रव्यैः शुद्धिर्गन्धावहारतः ॥ मातुः प्रसवने वत्सः शकुनिः फलपातने । गर्द्दभो भारहारित्वे श्वा मृगग्रहणे शुचिः ॥ रथ्याकर्द्द मतोयानि नावः पथि तृणानि च । मारुतेनैव शुध्यन्ति पक्वेष्टरचितानि च ॥ शृतं द्रोणाढकस्यान्तममेध्याभिप्लु तं भवेत् । अग्रमुद्धृत्य सन्त्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥ उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने । अज्ञाते ज्ञातपूर्व्वे च नैव शुद्धिर्व्विधीयते ॥ उदक्याश्वाननग्नांश्च सूतिकान्त्यावशायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ सस्ने हमस्थि संस्पृश्य सवासाः स्नानमाचरेत् । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च ॥” इति वामनपुराणे १४ अध्यायः ॥ अन्यत् मार्कण्डेयपुराणे सदाचाराध्याये द्रष्ट- व्यम् ॥ जलशुद्धिर्यथा, —
“गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्म्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥” भूतशुद्धिस्तु तच्छब्दे द्रष्टव्या ॥ * ॥
आसन- शुद्धिर्यथा । “एते गन्धपुष्पे आधारशक्तिकमला- सनाय नमः । आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्म्मो देवता आसनपरिग्रहे विनियोगः । पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता त्वञ्च धारय मां नित्यं पवित्रं कुरु चासनम् ॥” मण्डपशुद्धिर्यथा, —
“पञ्चगव्येन मूलेन मण्डपं परिशोधयेत् ॥” गौतमीये । “शञ्चगव्येन तद्गेहं मण्डलञ्च विशोधयेत् ॥” पञ्चगव्यप्रमाणन्तु तत्रैव । “पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते । घृतञ्च पलमात्रं स्यात् गोमयं तोलकद्वयम् ॥ दधि प्रसृतिमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् । अथवा पञ्चगव्यानां समानो भाग इष्यते ॥ मूलमन्त्रेण संमन्त्र्य तेनैव परिशोधयेत् । तेन सर्व्वविशुद्धिः स्यात् सर्व्वपापनिकृन्तनम् ॥” इति तन्त्रसारः ॥ * ॥
ग्रहशुद्धिर्गोचरशब्दे द्रष्टव्या ॥