वाचस्पत्यम्
शुनासीर || पु० सुष्ठुनासीरं यस्य पृषो० । १ इन्द्रे २ पेचके च पृषो० तस्य रूपत्रयम् द्विरूपकोषे उक्तं यथा “शुनाशोरो द्वितालव्यः सुनासीरो द्विदन्त्यकः । तालव्या- दिर्दन्त्यमध्यः शुनासीरश्च दृश्यते” ।
शब्दकल्पद्रुमः
शुनासीरः || पुं, (शुनासीरौ वायुसूर्य्ये अस्य स्त इति । शुन । सीर + अर्शआद्यच् ।)
इन्द्रः । यथा, —
“शुनाशीरो द्वितालव्यः शुनासीरो द्विदन्त्यकः तालव्यादिर्दन्त्थमध्यः शुनासीरश्च दृश्यते ॥” इत्यमरटीकायां भरतः ॥ (यथा, तैत्तिरीयसंहितायाम् । १ । ८ । ७ । १ । “इन्द्राय शुनासीराय पुरोडाशमिति ॥” * ॥
वायुसूर्य्यौ । इति निघण्टुः । ५ । ३ ॥ “शु-शब्दार्थ- विशिष्टात् शुन गतौ इत्यस्मात् इगुपधलक्षणः कः । क्षिप्रं गच्छत्यन्तरिक्षमिति शुनो वायुः यद्वा, शु-शब्दोपपदान्नयतेर्गतिकर्मणः अन्ये- ष्वपि दृश्यते इति डः । भाष्ये तु शु एतदर्थतो निर्वचनं प्रायेण । सर्त्तेः ‘डिण्डीरवानीरगभीर गम्भोर-कुम्भीर-शीरकाश्मीरजम्बीरकीरतीरा- दयः’ इति ईरन्-प्रत्ययष्टिलोपश्च निपात्यते । सदा सरणात् सीर आदित्यः । शुनञ्च सीरञ्च देवताद्वन्द्वे च इत्यङ् ।” इति तट्टीकायां देव- राजयज्वा ॥ * ॥
इन्द्रवायू । यथा, ऋग्वेदे । ४ । ५७ । ९ । “शुनासीरा शुनमस्मासु धत्तम् ॥”)
“हे शुनासीरा इन्द्रवाय्वादित्यौ वा ।” इति । तद्भाष्ये सायणः )