संस्कृत-शब्दकोशः

शुभस्थली शुभाङ्गी

शुभा

वाचस्पत्यम्

शुभा ||‍ स्त्री शुभ—क । १ शोभायां २ कान्तौ ३ इच्छायां मेदि० । ४ राचनायां ५ गोरोचनायां ६ शम्यां ७ प्रियङ्गौ ८ श्वेत- दूर्वायां राजनि० । ९ देवसभायां शब्दच० १० उमासखी भेदे शब्दच० ।


शब्दकल्पद्रुमः

शुभा || स्त्री शोभा । कान्तिः । इच्छा । इति मेदिनी ॥ वंशरोचना । गोरोचना । शमी । प्रियङ्गुः । श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥ देवसभा । इति शब्दरत्नावली ॥ उमासखी- विशेषः । इति शब्दमाला ॥ मङ्गलजनिका च ॥



Correction: