वाचस्पत्यम्
शूक || पु० न० श्वि—कक् सम्प्र० । (शुङ्गा) १ तीक्ष्णाग्रे अमरः । २ शिखायां ३ दयायां मेदि० ३ सविषजलमलोद्भवे जन्तुभेदे भावप्र० तद्दोषाधिकारेण तज्जातरोगास्तत्र दर्शिता यथा “अथ शूकदीषाधिकारः । तत्र शूकदोषस्व निदानमाह “अक्रमाच्छेफसो वृद्धिं योऽमिवाञ्छति मूढधीः । व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः” । अक्र मात् अनुचितवृद्धिक्रमात् । अनुचिता च वृद्धिः भूरिवि- कारजनकस्व योगेन शूकजाः शूकोजलशूकः स- विषो जलजन्तुविशेषः स तु जलमलोद्भवः अल्पडुण्डुभ इत्यादिकः । तथा शूकप्रधानो लिङ्गवृद्धिकरे वात्स्या- यनाद्युक्तो रोगः शूक उच्यत” । शूकदोषा दश चाष्टौ च भवन्ति । तेष्वादौ सर्षपिकामाह “गौरसर्षपसंस्थाना शूकदुर्भगहेतुका । पिडका श्लेष्मवाताभ्यां ज्ञेयासर्षपिका तु सा । शूकदुर्भगहेतुका शूकदुष्टयोनिनिमित्ता च । अथाष्टीलिकामाह “कठिना विषमैर्भुग्नैर्वायुनाष्टीलिका २ भवेत्” । अष्टीला लौहकारस्य भाण्डविशेषः (निहार) इति लोके । तथा कठिनेत्यष्टीलिका विषमैर्भुग्नैरिति वक्ष्यकाणणूकविशेषणम् । विषमैर्ह्रस्वदीर्घैः । भुग्नैः वक्रैः । ग्रथितमाह “शूकैर्यत् पूरितं शश्वद्ग्रथितं २ नाम तद्भवेत्” । यल्लिङ्गं सदा शूकैः पूरितं तद्ग्रथि- तत्वाद्ग्रथितम् । कुम्भिकामाह “कुम्भिका ४ रक्तपि- त्तात् स्याज्जाम्बवास्थिनिभा सिता” कुम्भिका कुम्भीफल- तुल्यत्वात् । अलजीमाह “अलजी ५ स्यात्तथा यादृक्- प्रमेहपिडका तथा । सा च रक्ताऽसिता स्फोटाचिता च कथिता बुधैः” । एषा रक्तपित्तनिमित्ता ज्ञेया । मृदितमाह “मृदितं ६ पीडितं यत्तु संरब्धं वातकोपतः । शूकदोषे जाते पीडितं सद्यत् संरब्धम् सशोथं भवति तल्लिङ्गं मृदितमुच्यते । संमूढपिडकामाह “पाणिभ्यां भृशसंमूढे समूढण्डिका ७ भवेत्” । शूकदोषे जाते पा- णिभ्यां मृशसंभूढे पिशिते लिङ्गे” । अत्रापि वातको- पत इत्यनुवर्त्तते । अथावमन्थमाह “दीर्घा वह्व्यश्च पि डका दीर्य्यन्ते मध्यतस्तु याः । सोऽवमन्थः ८ कफासृग्भ्यां वेदना रोमहर्षकृत्” । दीर्घा दीर्घाङ्कराः । पुष्कारका- माह “पिडका पिडकाव्याप्ता पित्तशोणितसम्भवा । पद्मकर्णिकसंस्थाना ९ ज्ञेया पुष्करिकेति सा” । पिडका- व्याप्ता पार्श्वतः क्षुद्रपिडकाव्याप्ता । अतएव पद्मकर्णिकसं- स्थाना । स्पर्शहानिमाह “स्पर्शहानिन्तु १० जनयेच्छोणितं शूकदूषितम्” अत्र स्पर्शासहत्वमेव लक्षणम् । उत्तमा- माह “मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या । एषो- त्तमाख्या पिडला ११ शृकाजीर्णसमुद्भवा” । शतपोनकमाह “छिद्रैरणुमुखैर्लिङ्गं चिरं यस्य समंन्ततः । वातशोणि- तजो व्याधिः विज्ञेयः शतपोनकः १२” । शतपोनकश्चालनी तत्तुल्यत्वाच्छतपोनकः । त्वक्पाकमाह “वातपित्तकृतो ज्ञेयस्त्वक्षाको १३ ज्वरदाहकृत्” । शोणितार्बुदमाह “कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम् । लिङ्गं वास्तु- रुजाश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १४” । वास्तुरुजः स्फो- टपिडकाधिष्ठानयेदनाः । अथ मांसार्बुदमाह “मांसदुष्टं विजग्नीयादर्बुदं मांससम्भवम् १५ । मांसपाकमाह “शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः । विद्यात्तं मांसपा- कन्तु १६ सर्वदोषकृतं भिषक्” । शीर्य्यन्ते गलन्ति । सर्वाश्च वेदनाः वातपित्तकफजाः । अथ विद्रधिमाह “विद्रधिः १७ सन्निपातेन यथोक्तमभिनिर्दिशेत्” । यथोक्तं सान्निपातिकं विद्रधितुल्यं कथयेत् । तिलकालकानाह “कृष्णानि चि- त्राण्यथ वा शुक्लानि सविषाणि तु । पतन्ति पातयन्त्याशु मेढ्रं निरवशेषतः । कालानि भूत्वा मांसानि शीर्व्यन्ते यस्य देहिनः । सन्निपातसमुत्थांश्च तान् विद्यात्तिलका- लकान् १८” । चित्राणि नानावर्णानि । शुक्लानि शुक्लव- र्णानि मञ्चाः क्रोशन्तीति वत् । सविषाणि सविष- शूकाख्यजन्तुविशेषकृतत्वात् । शीर्व्यन्ते गलन्ति । कृष्ण- तिलतुल्यत्वात्तिलकालकाः । अथासाध्यमाह “तत्र मां- सार्बुदं यच्च मांसपाकश्च यः स्मृतः । विद्रधिश्च न सि- ध्यन्ति ये च स्युस्तिलकालकाः” ।
शब्दकल्पद्रुमः
शूकः || पुं, क्ली, (शो तनूकरणे + “उलूकादयश्च ।” इति ऊकप्रत्ययेन साधुः ।)
श्लक्ष्णतीक्ष्णाग्रम् । शुँया इति भाषा । तत्पर्य्यायः । किंशारुः २ । इत्यमरः ॥ शुङ्गा ३ कोशी ४ । इति हेमचन्द्रः ॥ दया । इति मेदिनी ॥ सविषाल्पडुण्डुभादिजल- मलोद्भवजन्तुः । शूकप्रधानलिङ्गवृद्धिकरयोगः । तद्विवरणं यथा । अथ शूकदोषाधिकारः । तत्र शूकदोषस्य निदानमाह । “अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ॥” अक्रमात् अनुचितवृद्धिक्रमात् । अनुचिता च वृद्धिः भूरिविकारजनकस्य शूकस्य योगेन । शूकजाः । शूको जलशूकः सविषो जलजन्तु विशेषः । स तु जलमलोद्भवः । अल्पडुण्डुभ इत्यादिकः । तथा शूकप्रधानो लिङ्गवृद्धिकरो वात्स्यायनाद्युक्तो योगः शूक उच्यते । यथा, “भल्लातकास्थिजलशूकमथाब्जपत्र- मन्तर्विदह्य मतिमान् सह सैन्धवेन । एतद्विरूढबृहतीफलतोयपिष्ट- मालेपितं महिषविड्विमलीकृतेऽङ्गे ॥ स्थूलं महद्वरतुरङ्गमलिङ्गतुल्यं शेफः करोत्यभिमतं न हि संशयोऽस्ति ।” इत्यादि । यत्तु जलशूकरहितमश्वगन्धादितैलं तदुचितमेव लिङ्गवर्द्धनम् । “अश्वगन्धा वरी कुष्ठं मांसी सिंहीफलान्वितम् चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् । तत्तैलं मेढ्रवक्षोजकर्णपाणिविवर्द्धनम् ॥” ते च शूकदोषा दश चाष्टौ च भवन्ति ॥ * ॥
तेष्वादौ सर्षपिकामाह । “गौरसर्षपसंस्थाना शूकदुर्भगहेतुका । पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ॥” शूकदुभगहेतुका शूकनिमित्ता दुष्टयोनि- निमित्ता च ॥ * ॥
अष्ठीलिकामाह । “कठिना विषमेर्भुग्नैर्व्वायुनाष्ठीलिका भवेत् ।” अष्ठीला लाहकारस्य भाण्डविशेषः । निहाइ इति लोके । तद्वत् कठिना इत्यष्ठीलिका । विषमैर्भुग्नैरिति वक्ष्यमाणशूकविशेषणम् । विष मैर्ह्र स्वदीर्घैः । भुग्नैः वक्रैः ॥ * ॥
ग्रथितमाह । “शूकेर्यत् पूरितं शश्वत् ग्रथितं नाम तत् कफात् यल्लिङ्गं सदा शूकैः पूरितं तद्ग्रथितत्वाद्ग्रथि तम् ॥ * ॥
कुम्भिकामाह ॥ “कुम्भिका रक्तपित्तोत्था जम्बुकास्थिनिभा सिता ॥” कुम्भिका कुम्भतुल्यफलत्वात् ॥ * ॥
अलजीमाह “अलजी स्यात्तथा यादृक् प्रमेहपिडिकालजी । सा च रक्ता सिता स्फोटदारुणा कथिता च सा ॥” एषा रक्तपित्तनिमित्ता ज्ञेया ॥ * ॥
मृदिता- माह । “मृदितं पीडितं यत्तु संरब्धं वातकोपतः । पाणिभ्यां भृशसंभूढे संमूढपिडिका भवेत् ॥” शूकदोषे जाते पाणिभ्यां भृशसंमूढे पिच्चिते लिङ्गे अत्रापि वातकोपत इत्यनुवर्त्तते ॥ * ॥
अवमन्थमाह । “दीर्घा वाह्यश्च पिडिका दीर्य्यते मध्यमस्तु याम् सोऽवमन्थः कफाशृग्भ्यां वेदना लोमहर्षकृत् ॥” दीर्घा दीर्घाङ्कुराः ॥ * ॥
पुष्करिकामाह । “पिडिका पिडिकाव्याप्ता पित्तशोणितसम्भवा । पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिकेति सा ॥” पिडिकाव्याप्ता क्षुद्रपिडिकाव्याप्ता । अतएव पद्मकर्णिकसंस्थाना ॥ * ॥
स्पर्शहानिमाह । “स्पर्शहानिञ्च जनयेच्छोणितं शूकदूषितम् ।” अत्र स्पर्शासहत्वमेव लक्षणम् ॥ * ॥
उत्तमा- माह । “मुद्गमासोपमा रक्ता रक्तपित्तोद्भवा च सा । एषोत्तमाख्या पिडिका शूके जीर्णसमुद्भवा” * ॥
शतयोनकमाह । “च्छिद्रैरनुमुखैर्लिङ्गंचिरं यस्य समन्ततः । वातशोणितजो व्याधिर्विज्ञेयः शतयोनकः ॥” शतयोनकं चालनी तत्तुल्यत्वाच्छतयोनकः ॥ * ॥
त्वक्पाकमाह । “वातपित्तकृते ज्ञेयस्त्वक्पाको ज्वरदाहकृत् ।” एतस्य लिङ्गं त्वक्पाकलक्षणम् ॥ * ॥
शोणिता- र्व्वुदमाह । “कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिः प्रपी- डितम् । लिङ्गं वासरुजश्चोग्रा ज्ञेयं तत् शोणितार्व्वुदम् ॥” वासरुजः स्फोटकाधिस्थाने वेदना ॥ * ॥
मांसा- र्वुदमाह । “मांसदुष्ट्या विजानीयादर्वुदं मांससम्भवम् ।” मांसपाकमाह । “शीर्य्यन्ते यस्य मांसानि यस्य सर्व्वाश्च वेदनाः विद्यात्तं मांसपाकन्तु सर्व्वदोषकृतं भिषक् ॥” शीर्य्यन्तेगलन्ति । सर्व्ववेदनाः वातपित्तकफजाः विद्रधिमाह । “विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत् । उक्तं सान्निपातिकविद्रधितुल्यं कथयेत् ॥ * ॥
तिलकालकमाह । “कृष्णानि चित्राण्यथवा शूकाणि सविषाणि तु पतितानि पचन्त्याशु मेढ्रं निरवशेषतः ॥ कलानि भूत्वा मांसानि शीर्य्यन्ते यस्य देहिनः । सन्निपातसमुत्थांश्च विद्यात्तां तिलकालकान् ॥” चित्राणि नानावर्णानि । शूकानि शूकव्रणानि । मञ्चाः क्रोशन्तीतिवत् । सविषाणि सविष- शूकाख्यजन्तुविशेषकृतानि । शीर्य्यन्ते गलन्ति कृष्णतिलतुल्यत्वात् तिलकालकाः ॥ * ॥
असाध्य माह । “तत्र मांसार्वुदं यच्च मांसपाकश्च यः स्मृतः । विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ॥” अथ शूकदोषस्य चिकित्सा । “शूकदोषेषु सर्व्वेषु विषघ्नीं कारयेत् क्रियाम् । जलोकाभिर्हरेद्रक्तं रेचयेल्लघु भोजयेत् ॥ गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुताम् । क्षीरेण लेपसेकाच्च शीतानेव हि कारयेत् ॥ दार्व्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः । सम्पक्वं तैलमभ्यङ्गान्मेद्ररोगं विनाशयेत् ॥” सुरसं तुलसी । दार्व्वीतैलम् । “रसाञ्जनं साह्वयमेकमेव प्रलेपमात्रेण नयेत् प्रशान्तिम् । सपूतिपूयव्रणशोथकण्डू- शूलान्वितं सर्व्वमनङ्गरोगम् ॥” साह्वयमित्यनङ्गरोगस्य विशेषणम् । अनङ्ग- रोगस्य नामापि दूरीकरोति । इति शूक- दोपाधिकारः । इति भावप्रकाशः ॥